दत्तात्मा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दत्तात्मा, [न्] पुं, (दत्तः आत्मा येन ।) पुत्त्र- विशेषः । यथा, -- “दत्तात्मा तु स्वयं दत्तः ।” इति कात्यायनः ॥ अस्य विवरणम् । “दत्तात्मा तु पुत्त्रो यो मातापितृ- विहीनस्ताभ्यां त्यक्तो वातवाहं पुत्त्रो भवामीति स्वयं दत्तत्वमुपगतः ।” इति मिताक्षरा । २ । १३४ ॥ (विश्वदेवानामन्यतमः । यथा, महाभारते । १३ । ९२ । ३४ । “सोमपः सूर्य्यसावित्रो दत्तात्मा पुण्डरीयकः ॥”)
