दत्ताप्रदानिक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दत्ताप्रदानिकम्, क्ली, (दत्तस्य आप्रदानं ग्रहण- मस्त्यस्य । दत्ताप्रदान + ठन् ।) अष्टादश- विवादपदान्तर्गतविवादपदविशेषः । दत्तस्य पुन- राहरणं यस्मिन् विवादपदे तत् । यथा, नारदः । “दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥” “असम्यगविहितमार्गेण ।” इति मिताक्षरा ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दत्ताप्रदानिक¦ न॰ दत्तस्य असम्यक्तया दत्तत्वात् पुन-राप्रदानं ग्रहणमस्त्यत्र ठन्। अष्टादशविवादान्तर्गते व्यव-हारविषयभेदे तत्स्वरूपादिकं वी॰ मि॰ उक्तं यथानारदः
“दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति। [Page3456-a+ 38] दत्ताप्रदानिकं नाम व्यवहारपदं हि तदिति”। अस-म्यक् अशास्त्रोयमार्गाश्रयणेनेत्यर्थः। दानप्रकारस्या-देयादिभेदैश्चतुर्विधत्वमाह स एव।
“अदेयमथ देयञ्चदत्तं वाऽदत्तमेव च। व्यवहारेषु विज्ञेयो दानमार्ग-श्चतुर्विधः” इति। तत्र तावद्देयस्य स्वरूपभेदानाहवृहस्पतिः
“सामान्यं पुत्रदाराधिसर्वस्वन्यासयाचि-तम्। प्रतिश्रुतमथान्यस्य न देयं त्वष्टधा स्मृतमिति”। सामान्यं साधारणं प्रतिश्रुतं वाचादत्तम्। नारदोऽपि
“अन्वाहितं याचितकमाधिः साधारणञ्च यत्। निक्षेपःपुत्रदाराश्च सर्वस्वञ्चान्वये सति। आपत्स्वपि हिकष्टासु वर्त्तमानेन देहिना। अदेयान्याहुराचार्य्यायच्चान्यस्मै प्रतिश्रुतमिति”। साधारणं बहुस्वामिकंरिक्थादिकं न त्वविभक्तस्वामिकं सुवर्णादिकं तस्यासम्मतौ देयत्वेन वक्ष्यमाणत्वात्। अत्र पुत्रदानमेकपुत्रविषयं तद्दाने सन्ततिविच्छेदप्रसङ्गात्। अतएवविष्णुः,
“शुक्रशोणितसम्भवः पुरुषो मातापितृनिमि-त्तस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतोनत्वेकं पुत्रं दद्यात्प्रतिगृणहीयाद्वा स हि सन्तानायपूर्वेषामिति”। अतश्च
“सुतस्य सुतदाराणां वशित्वन्त्वनु-शासने। विक्रये चैव दाने च वशित्वं न सुते पितुः” इत्यादीनि स्मृत्यन्तरोक्तवचनानि सुतस्यादेयत्वप्रतिपा-दकानि एकपुत्रविषयाणीति ज्ञेयानि। अनेकपुत्रेष्वपिमातापितृवियोगसहनक्षम एव देयः। अतएव कात्या-यनः
“विक्रयञ्चैव दानञ्च न नेयाः स्युरनिच्छवः। दाराः पुत्राश्चेति” यथा दारा विक्रयं दानं वा भर्त्त्रान नेयास्तथा मातापितृभ्यां पुत्रा अपि पितृवियोगा-निच्छवो न नेया इत्यर्थ उक्तः स्मृतिचन्द्रिकायाम्। न नेयाः स्युरनिच्छव इत्येतदनापद्विषयम्।
“आपत्कालेतु कर्त्तव्यं दानं विक्रयमेव वा। अन्यथा न प्रवर्त्तेतइति शास्त्रविनिश्चयः” इति तानेवाधिकृत्य तेनैवाभिधानात्। मात्रापि पत्यनुज्ञया देयमित्याह विष्णुः
“न तु स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तु-रिति”। अन्वाहितादिवत् स्त्रीधनमप्यदेयम्। अतएवदक्षः
“सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम्। अन्वाहितञ्च निःक्षेपः सर्वस्वं चान्वये सति। आपत्स्वपिन देयानि नव वस्तूनि पण्डितैह्। यो ददाति समूदात्मा प्रायश्चित्तीयते नरः” इति। अदेयदाने प्रतिग्रहेच दण्डमाह मनुः। अदेयं यथ गृह्णाति यश्चादेयं[Page3456-b+ 38] प्रयच्छति। तावुभौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसमिति”। अदेयग्रहणमदत्तस्याप्युपलक्षणार्थम्। अतएवनारदः।
“गृह्णात्यदत्तं यो मीहाद्यश्चादेयं प्रयच्छति। दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षितेति”। अदत्तादेयग्रहणाद्गृहीतस्य परावर्त्तनमपि कार्यमिति गम्यते। अदत्तग्रहणे दाने च दानसिद्ध्यभावात्परस्वत्वानुत्पत्ते-रित्युक्तं स्मृतिचन्द्रिकायाम्। देयस्वरूपमाह स एव।
“कुटुम्बभरणाद्द्रव्यं यत्किञ्चिदतिरिच्यते। तद्देयमुप-हत्यान्यन्न तद्दोषमवाप्नुयादिति”। अन्यदुपहत्य भर्त्तव्यकुटुम्बमनवरुद्ध्येत्यर्थः। उपरोधश्च भोजनाच्छादनादि-राहित्यनिबन्धनतोऽत्राभिमतो न ताम्बूलादिभोगसाधन-वैकल्यनिबन्धनः। अतएव वृहस्पतिः।
“कुटुम्ब भक्त-वसनाद्देयं यदतिरिच्यत इति”। भक्तं भोजनं वसनम्आच्छादनम्। भक्तवसनाद्यदतिरिच्यत इत्यन्वयः। याज्ञवल्क्योऽपि” स्वं कुटुम्बाविरोधेन देयं दारसुता-दृते” इति। कुटुम्बाविरोधेन कुटुम्बानुपरोधेन कुटुम्बभ-रणाबशिष्टं स्वन्देयमित्यर्थः। स्थावरविषये देयमाहतुःप्रजापतिवृहस्पती
“सप्तागमाद्गृहक्षेत्राद्यद्यत्क्षेत्रंप्रदीयते। पित्र्यं वाथ स्वयंप्राप्तं तद्दातव्यं विव-क्षितमिति”। सप्तागमात्पूर्वोक्तसप्तविधागमयुक्तात्। क्षेत्रग्रहणमुपलक्षणम्। पित्र्यं वंशपरम्परायातम्। स्वयंप्राप्तं स्वयमर्जितम्। पित्र्यस्वयंप्राप्तयोरुपादानंक्रीतादीनामुपलक्षणार्थम्। पित्र्यं वा स्वयंप्राप्तं वायद्गृहक्षेत्रादिकं प्रदीयते तत्सप्तागमान्विताद्गृहक्षेत्रा-दुद्धृत्य दातव्यमिति विवक्षितमित्यर्थः। अत्र सप्ता-गमाद्गृहक्षेत्रादित्यभिधानं गृहक्षेत्रादिदानं कुटुम्ब-पर्य्याप्ते सागमके गृहे क्षेत्राद्यन्तरे सत्येव नान्य-थेत्येवमर्थम्। यत्तु कात्यायनेनोक्तम्
“सर्वस्वं गृह-वज तु कुटुम्बभरणाधिकम्। यद्द्रव्यं तत् स्वकन्देय-मदेयं स्यात्ततोऽन्यथेति”। तद्गृहाद्यन्तराभावविषयम्। स्वकं स्वकीयम् यथेष्टविनियोगार्हद्रव्यमिति यावत्। स्वयंप्राप्तं त्वविभक्तधनैर्भ्रातृभिरननुज्ञातमपि देयम्।
“स्वेच्छादेयं स्वयंप्राप्तं बन्धाचारेण बन्धकम्” इतिवृहस्पतिस्मरणात्। स्वेच्छादेयं भ्रात्राद्यनुज्ञामन्तरेणापिदेयम्। बन्धकं बन्धाचारेणाधिरूपेण देयमित्यर्थः। यत्तु तेनैवोक्तम्
“विभक्ता अविभक्ता वा दायादाः स्थावरेसमाः। एकोऽप्यनीशः सर्वत्र दानाधमनविक्रये” इति। तत् समानाधिकाविभक्तस्थावरविषयम्। आधमनमा-[Page3457-a+ 38] धीकरणं विभक्ता अपि स्थावरे समाः किमुताविभक्ताइति दण्डापूपन्यायेन व्याख्येयम्। अन्यथा विभागोनिरर्थकः स्यात्। अतश्च यदुक्तं स्मृत्यन्तरे
“एकोऽपिस्थावरे कुर्य्याद्दानाधमनविक्रयम्। आपत्काले कुटुम्बार्थेधर्मार्थे च विशेषतः” इति। तत्क्रमायातविभक्तस्थाव-रविषयं सप्तानधिकस्थावरविषयं वेति मन्तव्यम्। स्वा-र्जितमपि किञ्चित्प्राप्तब्यवहारेषु पुत्रेषु सत्सु तदनुम-त्यैव दातव्यमित्यभिप्रेत्याह भगवान् व्यासः।
“स्थावरंद्विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भूय सुतान्सर्वान्न दानन्न च विक्रयः। ये{??}ता येऽप्यजाताश्चये च गर्भे व्यवस्थिताः। वृत्तिं च तेऽभिकाङ्क्षन्तिन दानन्न च विक्रयः” इति। अत्रोत्तरपद्यं पूर्वपद्य-दर्शितवृहस्पतिवचनार्थस्य दण्डापूपन्यायप्रदर्शनेन दृढी-करणार्थम्। किञ्चिद्भर्त्रा पत्न्यनुज्ञातमेव देयम्। किञ्चिन्मुख्येनापि भ्रात्राद्यनुज्ञातमेव देयम्। तथाच वृहस्पतिः
“सौदायिकं क्रमायातं शौर्य्यप्राप्तंच यद्भवेत्। स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नु-यादिति”। सौदायिकं वैवाहिकं यस्याः परिणयनेलब्धं तस्याः अनुज्ञयैव दातव्यम्। क्रमायातम्पितृ-पितामहादिक्रमायातम्। स्त्रीज्ञात्यनुमतं न सकलन्दे-यम्।
“वैवाहिके क्रमायाते सर्वदानन्न विद्यते” इतितेनैवोक्तत्वात्। देयोक्तिप्रसङ्गेन प्रतिग्रहे प्रकारविशेषंदर्शयति याज्ञवल्क्यः
“प्रतिग्रहः प्रकाशः स्यात् स्था-वरस्य विशेषतः” इति। प्रकाशः प्रकटः ससाक्षिक इतियावत्। पुत्रप्रतिग्रहे प्रकारविशेष उक्तो वसिष्ठेन।
“पुत्रं परिग्रहीष्यन् बन्धूनाहूय राजनि चावेद्य निवे-शनस्य मध्ये व्याहृतिभिर्हुत्वाऽदूरबान्धवमसन्निकृष्टमेवगृहणीयादिति”। अदूरवान्धवं सन्निहितमातुलादिबान्ध-वम् असन्निकृष्टं सन्निकृष्टभ्रातृभगिनीपुत्रादिव्यतिरिक्तमेवप्रतिगृह्णीयादित्यर्थः। प्रासङ्गिकमुक्त्वा प्रकृतमप्याह याज्ञ-वल्क्यः
“देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः” इति। इदन्ते दास्यामीति यत् प्रतिश्रुतन्तदवश्यं तस्मै दातव्यंयदि धर्म्मप्रच्युतो न भवति। प्रच्युते पुनर्न दातव्यं
“प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति” गौतमस्मरणात्।
“दत्त्वा नापहरेत् पुनः”। न्यायमार्गेण यत् दत्तं सप्त-विधमपि पुनर्नापहर्त्तव्यम् किन्तु तथैवानुमन्तव्यमि-त्यर्थः। यत् पुनः प्रतिश्रुतन्न ददाति दत्तं वाऽपहरतिठस्य दोममाह हारीतः
“प्रतिश्रुतार्थादानेन दत्तस्य छेद-[Page3457-b+ 38] नेन च। विविधान्नरकान् याति तिर्य्यग्योनौ चजायते। वाचैव यत्प्रतिज्ञातं कर्म्मणा नोपपादितम्। ऋणं तद्धर्मसंयुक्तमिह लोके परत्र च” इति। यद्धनंधर्म्मसंयुक्तं प्रतिगृहीतुः प्रवृत्तधर्म्मसम्पत्त्यर्थं वाचाप्रतिज्ञातन्न पश्चादर्पितं तदिह परत्र च ऋणवन्नापैती-त्यर्थः। प्रतिश्रुतमदद्राज्ञा तद्दाप्यो दण्ड्यश्चेत्याह का-त्यायनः
“स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम्। न दद्यादृणवद्दाप्यः प्राप्नुयात्पूर्वसाहसम्” इति। मत्स्य-पुराणेऽपि
“प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः” इति। अनयोर्दण्डयोरपराधानुसारेण व्यवस्था। ( दत्तं सप्तविधमदत्तं षोडशप्रकारमित्याह नारदः(
“दत्तं मुप्तविघं ज्ञेयमदत्तं षोडशात्मकम्” इति। तत्रदत्तभेदानाह स एव।
“पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः। स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः” इति। पण्यमूल्यं क्रीतद्रव्यस्य मूल्यम्। भृतिस्वरूपं कात्या-यनेन दर्शितम्।
“अभीप्सितोपलब्ध्यर्थं दानं यत्र निरूपि-तम्। उपलब्धिक्रियालब्धंसा भृतिः परिकीर्त्तिता” इति। प्रयोजनक्रियासम्पादनार्थं भृतिरिष्यत इत्यर्थः। तुष्ट्यापरितोषेण वन्दिप्रसृतिभ्यो दत्तमिति शषः। स्नेहात्प्रीत्या दुहित्रादिभ्यो दत्तम्। प्रत्युपकारतः कृतोपकारायप्रत्युपकारिणा दत्तम्। तत्प्रदर्शनार्थमाह। कात्यायनः
“भयत्राणोपरक्षार्थात्तथाकार्यप्रसाधनात्। अनेन विधिनालब्धं भयत्राणादिकं धनम्”। उपकारकरणेन लब्ध-मिति यावत्। स्त्रीशुक्लं विवाहार्थं कन्याबन्धुभ्यो-दत्तम्। अनुग्रहार्थं परोपकारः कर्त्तव्य इति बिधिबला-द्यत्र कुत्राप्यनुग्रहार्थं दत्तमेतत् सकलं सफलं भवतीतिदशयितुन्नारद आह
“मातापित्रोर्गुरौ मित्रे विनीतेचोपकारिणि। दीनानाथविशिष्टेभ्यो दत्तं तु सफलम्भ-वेदिति”। उपकारिणि परोपकारे सफलं फलातिशयो-पेतमित्यर्थः। तदेतत्पण्यादि सप्तविधं दत्तमेव दानविदोविदुः अपरावर्तनीयं विदुरित्यर्थः। वृहस्पतिरपि
“भृतिस्तुष्ट्या पण्यमूल्यं स्त्रीशुक्लमुपकारिणे। श्रद्धानुग्रह-संप्रीत्त्या दत्तं सप्तविधं विदुरिति” अदत्ताति दर्श-यति नारदः
“अदत्तन्तु भयक्रोधशोकवेगरुगन्वितैः। तथोत्कोचपरीहासव्यत्यासच्छलयोगतः। बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम्। कर्त्ता ममायं कर्मेतिप्रतिलाभेच्छया च यत्। अपात्रे पात्रमित्युक्ते कार्य्येवा धर्म्मसंहिते। यद्दत्तं स्यादविज्ञानाददत्तमिति[Page3458-a+ 38] तत्स्मृतमिति”। रुक् उपतापः भयादिकृतोय उपताप-स्तदन्वितैरित्यन्वयः। अपवर्ज्जितं दत्तं बालादिभिरप-वर्ज्जितमित्यन्वयः। एतदुक्तं भवति भयोपतप्तेन वन्दिग्राहादिभ्यो दत्तं क्रोधोपतप्तेन क्रोधविषयीभूतानांपुत्त्रभ्रात्रादीनां भयं कर्तुमितरेभ्यो दत्तम्। पुत्रादिवियोगजनितशोकवेगादुपतप्तेन किं स्थितेन धनेनेतितात्कालिक्या बुद्ध्या दत्तम्। उत्कोचेन राजकीया-दिभ्यो दत्तम्। उपहासेन दत्तम्। व्यत्यासेन एकःस्वद्रव्यमन्यस्मै ददाति अन्योऽपि स्वीयन्तस्मै ददातीतिदानव्यत्यासेन दत्तम्। छलयोगतः शतदानमभिसन्धायसहस्रमिति परिभाष्य दत्तम्। बालेनाप्राप्तव्यवहारेणदत्तं मूढेन लोकवेदानभिज्ञेन दत्तम्। अस्वतन्त्रेणदासादिना दत्तम्। आर्त्तेन रोगीपहतेन दत्तम्। मत्तेन धुस्तूरादिभक्षणादिना मत्तेन दत्तम् उन्मत्तेनवातपित्ताद्युद्रेकादिना चलितधिया दत्तम्। अयं मदीयंकर्म करिष्यतीति प्रतिलाभेच्छया प्रतिलाभमकुर्वाणायदत्तम्। अपात्रायायोग्याय योग्योऽहम् इत्युक्तिमात्रेणदत्तम्। यज्ञादिं करिष्यामीत्युक्त्वा धनं गृहीत्वा द्यूता-दिकर्म्मणि विनियुञ्जानाय दत्तं इत्येवं षोडशप्रकार-मपि दत्तं पुनः प्रत्याहरणीयत्वाददत्तमुच्यत इत्यर्थः। पुनःप्रत्याहरणीयत्वमेवंविधानामाह कात्यायनः
“काम-क्रोधास्वतन्त्रार्त्तक्लीवोन्मत्तप्रमोहितैः। व्यत्यासपरि-हाराय यद्दत्तन्तत्पुनर्हरेत्। या तु कार्यप्रसिद्ध्यर्थ-मुत्कोचा स्यात्प्रतिक्रिया। तस्मिन्नपि प्रसिद्धेऽर्थे न देयास्यात्कथञ्चन। अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्ततो-बलात्। दण्डं चैकादशगुणमाहुगार्गीयमानवाः” उत्कोचस्वरूपमाह स एव।
“स्तेयसाहसिकोद्-वृत्तपारदारिकशंसनात्। दर्शनाद्वृत्तनष्टस्य तथाऽ-सत्यप्रवर्त्तनात्। प्राप्तमेतैस्तु यत्किञ्चिदुत्कोचाख्यंतदुच्यते। न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोष-भागिति” एतदुक्तं भवति यदि मह्यं न प्रयच्छसि तदात्वत्कृतं स्तेयादि कथयामीति भीतिमुत्पाद्य स्तेयादि-कर्त्तुः सकाशाद्धनमादत्ते। तथा त्वं यदि धनं मह्यन्नप्रयच्छसि तदा पलायमानं त्वां दर्शयामीति भीतिमुत्पाद्यपलायिनः सकाशाद्यत्किञ्चिदादत्ते तथा तव सत्यमपिस्वामिनिकटेऽसत्यं वदिष्यामीत्युक्त्वा यत्किञ्चिदादत्ते तदु-त्कोचाख्यं तद्राज्ञा दात्रे दाप्यम् उत्कोचापादकग्राहकौच दण्डनीयाविति पुनः प्रत्याहरणीयमिति वृहस्पति-[Page3458-b+ 38] रप्याह प्रतिलाभेच्छया दत्तमपात्रे पात्रशङ्कया। कार्य्येवाधर्म्मसंयुक्ते स्वामी तत्पुनराप्नुयादिति”। आर्त्तदत्त-स्यादत्तत्वं धर्म्मकार्य्यव्यतिरिक्तविषयम्। तथा च कात्या-यनः
“स्वस्थेनार्त्तेन वा दत्तं श्रावितं धर्म्मकारणात्। अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः” इति। मनुरपि सोपाधिकदानादेर्निवर्त्तनमाह
“योगाधमनविक्रीतंयोगदानप्रतिग्रहम्। यस्य वाप्युपधिम्पश्येत्तत्सर्वं विनि-वर्त्तयेदिति”। योग उपाधिः येनागामिनीपाधिविशे-षेणाधिविक्रयादानप्रतिग्रहाः कृतास्तदुपाधिविगमे तेसर्वेऽपि निवर्त्तेरन्नित्यर्थः। ”
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दत्ताप्रदानिक¦ n. (-कं) Resumption of gifts; one of the eighteen titles of law. E. दत्त, and अप्रदानिक not giving.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दत्ताप्रदानिक/ दत्ता mfn. relating to the non-delivery of a gift , 174/175.
