दधिकूर्च्चिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधिकूर्च्चिका, स्त्री, (दधिजाता कूर्च्चिका ।) अर्द्धो- दकोष्णदुग्धे दध्यम्लसंयोगात् जाता । इति केचित् ॥ उष्णदुग्धे दध्यम्लसंयोगात् जाता इत्यन्ये ॥ छेना इति भाषा । अस्या गुणाः । वातनाशित्वम् । ग्राहित्वम् । रूक्षत्वम् । दुर्ज्जरत्वञ्च । इति राजवल्लभः ॥ (पर्य्यायोऽस्या यथा, -- “दध्ना सह पयः पक्वं यत् स्यात्तद्दधिकूर्च्चिका ॥” इति वैद्यकरत्नमालायाम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधिकूर्च्चिका¦ स्त्री
“दध्ना सह पयः पक्वं यत् स्यात् सादधिकूर्च्चिका” इत्युक्तलक्षणायामामिक्षायाम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधिकूर्च्चिका¦ f. (-का) A mixture of boiled and coagulated milk, or of water and sour curds. E. दधि as above, and कूर्च्चिका inspissated milk. (छाना) |