दधिपयआदि
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधिपयआदि¦ न॰ समाहारद्वन्द्वनिषेधनिमित्ते शब्दद्वयगण-भेदे। स च गणः पा॰ ग॰ सूत्रे उक्तो यथा
“दधिपयसीसर्पिर्मधुनी मधुसार्पषी ब्रह्मप्रजापती शिववैश्रवणौस्कन्दविशाखौ परिव्राट्कौशिकौ प्रवर्ग्योपसदौ शुक्लकृष्णौइध्मावर्हिषी दीक्षातपसी श्रद्धातपसी मेधातपसीअध्ययनतपसी उलूखलमुसले आद्यवसाने श्रद्धामेधेऋक्सामे वाङ्मनसे”।
