सामग्री पर जाएँ

दधीचिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दधीचिः, पुं, मुनिविशेषः । स अथर्व्वमुनेरौरसात् कर्द्दमकन्यायां शान्तिनाम्न्यां जातः । वृत्र- वधार्थं देवैरस्यास्थ्ना वज्रं निर्म्मितम् । इति श्रीभागवतम् ॥ यथा, -- “ऋतेऽस्थिभ्यो दधीचस्य निहन्तुं त्रिदशद्बिषः । तस्मात् यत्नादृषिश्रेष्ठो याच्यतां सुरसत्तमाः ॥ दधीचेऽस्थीनि देहीति तैर्व्वधिष्यथ दानवान् । तत् श्रुत्वा सहसा देवैर्याचितो मुनिभिस्तथा ॥ ददौ चास्थीनिं देवेभ्यो दधीचिः सुमनास्तदा । प्राणायामं ततः कृत्वा देहं त्यक्त्वा सुभास्वरान् ॥ सर्व्वलोकान् क्षयान् प्राप्तो येभ्यो नावर्त्तनं पुनः । तस्यास्थिभिरथो शक्रः प्रहृष्टः सुमनास्तथा ॥ कारयामास दिव्यानि तानि प्रहरणान्युत । वज्रासिशूलचक्रञ्च परिघा विविधा गदाः ॥ विश्वकर्म्मा सुराणान्तु परिघाद्यायुधानि च ॥” इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=दधीचिः&oldid=139510" इत्यस्माद् प्रतिप्राप्तम्