दध्यन्च्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दध्यन्च्¦ पु॰ दधिं धारकमञ्चति अन्च--क्विप्। अथर्वर्षिपुत्रेदधीचौ मुनिभेदे
“दध्यङ्ङाथर्वणस्त्वष्ट्रे” भाग॰
६६ ।
९ ।
५१
“स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्” भाग॰
६ ।
९ ।
५५ ।
“यामथर्वा मनुष्पिता दध्यङ्धियमत्नतइत्यृचमधिकृत्य निरुक्ते तु
१२ ।
३३ अन्या निरुक्तिरुक्ता
“दध्यङ्प्रत्यक्तो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमितिवा”।
“दध्यङ् ह नन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र य-दीमुवाच” ऋ॰
१ ।
११
६ ।
१२ । आथर्वणः अथर्वणः पुत्रोदध्यङ् एतत्संज्ञ ऋषिरवस्य शीर्ष्णा युष्मत्नामर्थ्येनप्रतिहितेन शिरसा वां युवाभ्यामीमिमां मधुविद्यां यद्यदा खलु प्रोवाच प्रोक्तवान्। तदानीमश्वस्य शिरसःसन्धानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसन्धानलक्षणंच यद्भवदीयं कर्म तदाविष्कृणोनीत्यर्द्धः। अत्रेयमा-ख्यायिका
“इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यांचोपदिश्यं यदीमामनस्मै वक्ष्यसि शिरस्ते छेत्स्यामी-[Page3462-b+ 38] त्युवाच। ततोऽश्विनावश्वस्य शिरश्छित्वा दधीचः शिरः-प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्तां तेन चदध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणिमधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास। तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत्। अथाश्विनौतस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति। शाट्यायन-वाजसनेययोः प्रपञ्चेनोक्तम्। तस्य टादावजादौ दधीचःदधीचा इत्यादि। ततः स्वार्थे अण् इञ् वा पृषो॰वृद्ध्यभावे। दधीच दधीचि इति रूपमित्यवधेयम्।
