सामग्री पर जाएँ

दन्तकाष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तकाष्ठम्, क्ली, (दन्तधावनार्थं यत् काष्ठम् ।) विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥ दन्तधाव- नार्थकाष्ठम् । तद्यथा नरसिंहपुराणे । “दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् । सर्व्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥” महाभारते । “तिक्तं कषायं कटुकं सुगन्धि कण्टकान्वितम् । क्षीरिणो वृक्षगुल्माद्या भक्षयेद्दन्तधावनम् ॥” निषिद्धकाष्ठानि यथा, -- “गुवाकतालहिन्तालास्तथा ताडी च केतकी । खर्ज्जूरनारिकेलौ च सप्तैते तृणराजकाः ॥ तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तघावनम् । तावद्भवति चाण्डालो यावद्गङ्गां न पश्यति ॥” तस्य स्थौल्यं परिमाणञ्चाह विष्णुः । “कनिन्यग्रसमं स्थौल्यं सकूर्च्चं द्बादशाङ्गुलम् । प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावकम् ॥” मरीचिः । “द्वादशाङ्गुलन्तु विप्राणां क्षत्त्रियाणां नवाङ्गुलम् । अष्टाङ्गुलञ्च वैश्यानां शूद्राणान्तु षडङ्गुलम् ॥ चतुरङ्गुलमानेन नारीणां विधिरुच्यते । अन्तरप्रभवाणाञ्च षडङ्गुलमुदाहृतम् ॥” इत्याह्निकतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तकाष्ठ¦ न॰ दन्तंधावनार्थं काष्ठम्।

१ दन्तधावने काष्ठे। तत्काष्ठमस्त्यत्र साध्यतया अच्।

२ विकङ्कतवृक्षे पु॰ राजनि॰। सफलतत्काष्ठभेदाः वृ॰ स॰

८५ अ॰ उक्ता यथा(
“वल्लीलतागुल्मतरुप्रभेदैः स्युर्दन्तकाष्ठानि सहस्रशोयैः। फलानि वाच्यान्यतितत्प्रसङ्गो मा भूदतो वच्म्यथकामिकानि। अज्ञातपूर्वाणि न दन्तकाष्ठान्यद्यान्नपत्रैश्च समन्वितानि। न युग्मपर्वाणि न पाटितानिन चोर्ध्वशुष्काणि विना त्वचा वा। वैकङ्कतश्रीफल-काश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः। वृद्धि-र्वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके ककुभेप्रियत्वम्। लक्ष्मीः शिरोषे च तथा करञ्जे प्लक्षेऽर्थ-सिद्धिः समभीप्सिता स्यात्। मान्यत्वमायातिजनस्य जात्यां प्राधान्यमश्वत्थतरौ वदन्ति। आरो-ग्यमायुर्बदरीवृहत्योरैश्वर्यवृद्धिः खदिरे सविल्वे। द्रव्याणिचेष्टान्यतिमुक्तके स्युः प्राप्नोनि तान्येव पुनः कदम्बे। निम्बेऽर्थाप्तिः करवीरेऽन्नलब्धिर्भाण्डीरे म्यादिदमेवप्रभूतम्। शम्यां शत्रूनपहन्त्यर्जुने च श्यामायांच द्विषतामेव नाशः। सालेऽश्वकर्णे च वदन्तिगौरवं सभद्रदारावपि चाटरूषके। वाल्लभ्यमाथातिजनस्य सर्वतः प्रियङ्ग्वपामार्गसजम्वुदाडिमैः। उदङ्-मुखः प्राङ्मुख एव वाव्दं कामं यथेष्टं हृदयेनिवेश्य। अद्यादनिन्द्यं च सुखोपविष्टः प्रक्षाल्यजह्याच्च शुचिप्रदेशे। अभिमुखपतितं प्रशान्तदिक्स्थंशुभमतिशोभनमूर्ध्वसंस्थितं यत्। अशुभकरमतोऽ-न्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम्”। ( आ॰ त॰ नरसिंहपुराणे च
“दन्तकाष्ठस्य वक्ष्यामिसमासेन प्रशस्तताम्। सर्वे कण्टकिनः पुण्याःक्षीरिणश्च यशस्विनः”। महाभारते।
“तिक्तकषायं कटुकं सुगन्धि कण्टकान्वितम्। क्षीरिणो वृक्ष-गुल्माद्यान् भक्षयेद्दन्तधावने”। निषिद्धकाष्ठानि यथा
“गुवाकतालहिन्तालास्तथा ताडी च केतकी। खर्जूर-नारिकेलौ च सप्तैते तृणराजकाः। तृणराजसिरापत्रैर्यः कुर्य्याद्दन्तधावनम्। तावद्भवति चाण्डालो याव-[Page3464-a+ 38] द्वङ्गां न पश्यति। तस्य स्थौल्यं परिमाणञ्चाह विष्णुः
“कनिष्ठाग्रसमं स्थौल्यं सकूर्चं द्वादशाङ्गुलम्। प्रातर्भूत्वाच यतवाक् भक्षयेद्दन्तधावनम्” मरीचिः द्वादशाङ्गु-लञ्च वैश्यानां शूद्राणान्तु षडङ्गुलम्। चतुरङ्गुलमानेननारीणां विधिरुच्यते। अन्तरप्रभवानाञ्च षडङ्गुलमुदा-हृतम्”। दन्तधावनदन्तपवनशब्देऽधिकं दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तकाष्ठ¦ n. (-ष्ठं) A piece of stick, or of the small branch of a tree used as a tooth brush. E. दन्त, and काष्ठ wood.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तकाष्ठ/ दन्त--काष्ठ n. a small piece of the wood (of particular trees) used for cleaning the teeth MBh. xiii etc.

दन्तकाष्ठ/ दन्त--काष्ठ n. cleaning the teeth with the दन्त-काष्ठ, 4996 VarP.

दन्तकाष्ठ/ दन्त--काष्ठ m. N. of various trees the wood of which is used for cleaning the teeth (Flacourtia sapida L. ; Asclepias gigantea , Ficus indica , Acacia Catech , Pongamia glabra , Terminalia alata) Npr.

"https://sa.wiktionary.org/w/index.php?title=दन्तकाष्ठ&oldid=283357" इत्यस्माद् प्रतिप्राप्तम्