सामग्री पर जाएँ

दन्तच्छदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तच्छदः, पुं, (दन्ताश्छाद्यन्तेऽनेनेति । छद संवरणे + णिच् + “पुंसि संज्ञायां घः प्रायेण ।” । ३ । ३ । ११८ । इति घः । “छादेर्घेऽद्व्युपसर्गस्य ।” ६ । ४ । ९६ । इति ह्रस्वः ।) ओष्ठः । इति हलायुधः ॥ (यथा, ऋतुसंहारे हेमन्तवर्णनायाम् । १२ । “दन्तच्छदैर्दन्तविधातचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः । संसूच्यते निर्द्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दन्तच्छदः&oldid=139544" इत्यस्माद् प्रतिप्राप्तम्