दन्तधावन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तधावनम्, क्ली, (दन्तानां धावनम् ।) दन्त- मार्ज्जनम् । (दन्तानां धावनं यस्मात् ।) दन्त- काष्ठम् । यथा, गारुडे २१४ अध्याये । “उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् । ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्ब्बकम् ॥ मुखे पय्युषिते नित्यं भवत्यप्रयतो नरः । तस्मात् सर्व्वप्रयत्नेन भक्षयेद्दन्तधावनम् ॥ कदम्बविल्वखदिरकरवीरवटार्ज्जुनाः । तगरं बृहती जातिकरञ्जार्कातिमुक्तकाः ॥ जम्बूमघूकापामार्गशिरीषोडुम्बराशनाः । क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने ॥ कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः । प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचमेत् ॥ अमावास्यां तथा षष्ठ्यां नवम्यां प्रतिपद्यपि । वर्ज्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे ॥ अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ । अपां द्वादशगण्डूषैः कुर्व्वीत मुखशोधनम् ॥” दन्तशुद्धिः । तस्य विधिर्यथा, -- “प्रातर्भुङ्क्त्वा च मृद्बग्रं कषायकटुतिक्तकम् । भक्षयेद्दन्तपवनं दन्तमांसान्यवाधयन् ॥” * ॥ तस्य काष्ठानि यथा, -- “केऽप्यत्र करवीराम्रकरञ्जवकुलाशनान् ।
दन्तधावनः, पुं, (धावयत्यनेनेति । धावि + ल्युट् । दन्तानां धावनः ।) खदिरवृक्षः । गुच्छकरञ्जः । इति राजनिर्घण्टः ॥ वकुलः । इति शब्द- चन्द्रिका ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तधावन पुं।
खदिरः
समानार्थक:गायत्री,बालतनय,खदिर,दन्तधावन
2।4।49।2।4
रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः। गायत्री बालतनयः खदिरो दन्तधावनः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तधावन¦ पु॰ दन्तान् धावयति शोधयति धाव--ल्यु।
१ खदिरवृक्षे
२ गुञ्जकरञ्जे, राजनि॰
३ बकुले शब्दच॰। एतेषां तत्साधनत्वात् तथात्वम् भावे ल्युट्।
४ दन्त-मार्जने तत्प्रकारो यथा
“प्रातर्भङ्क्त्वा च मृद्वग्रं कषायंकटुतिक्तकम्। भक्षयेद्दन्तधावनं दन्तमांसान्यबाधयन्। तस्य काष्ठानि यथा
“केऽप्यत्र करवीराम्रकरञ्जबकुलास-नान्। दन्तकाष्ठार्थमन्ये तु सर्वान् कण्टकिनोऽभ्यधुः। स्वदिरश्च कदम्बश्च करञ्जश्च वटस्तथा। तिन्तिडी वेणु-पृष्ठञ्च आम्रनिम्बौ तथैव च। अपामार्गश्च विल्वश्चअर्कश्चोडुम्बरस्तथा। एते प्रशस्ताः कथिता दन्तधावन-कर्मणि”। तत्र निषिद्धकाष्ठानि यथा
“गुवाकतालहि-न्तालखर्जूरैः केतकीयुतैः। नारिकेलेन ताड्या च नकुर्य्याद्दन्तधावनम्”। तस्य दिगभेदमुखभेदे शुभाशुभफलंयथा
“मृत्युः स्वाद्दक्षिणास्येन पश्चिमास्येन चामयः। पूर्वास्येनोत्तरास्येन सम्पदो दन्तधावनात्”। तस्य तिथि-विशेषे निषेधो यथा
“प्रतिपद्दर्शषष्ठीषु नवम्येकादशीषुच। दन्तानां काष्ठसंयोगी दहत्यासप्तमं कुलम्”। दन्त-घर्षणानन्तरं चक्षुःसेचनं यथा। दन्तानूर्द्ध्वमधो घृष्ट्वाप्रातः सिञ्चेच्च लोचने। तोयपूर्णमुखस्तेन दृष्टिराशुप्रसीदति”। रोगविशेषे दन्तकाष्ठवर्जनं यथा
“अर्दितःकर्णशूली च दन्तरोगी नवज्वरी। शोषी कासी चमूर्च्छार्त्तो दन्तकाष्ठं विवर्जयेत्”। तस्य गुणा यथा
“निहन्ति वक्त्रवैरस्यं जिह्वादन्ताश्रितं मलम्। आरोग्यंरुचिमाधत्ते सद्यो दन्तविशोधनम्” इति राजबल्लभः।
“कृतशौचस्ततः प्राज्ञः कुर्य्याद्दन्तस्य धावनम्। जिह्वायामाजनञ्चापि रसालच्छदनादिभिः। दक्षिणाभिमुखोभूत्वा पश्चिमाभिमुखस्तथा। न दन्तधावनं कुर्य्यात्कुर्य्याच्चेन्नारकी भवेत्। मध्यमानामिकाभ्याञ्च वृद्धाङ्गु-ष्ठेन च द्विजः। दन्तस्य धावनं कुर्य्यात् तर्जन्या नकदाचन। अश्वत्थवटविल्वानां धात्र्याः काष्ठिकया बुधः। न दन्तधावनं कुर्य्यात्तथेन्द्रसुरसस्य च। नित्यक्रिया-फलं प्रेप्सुस्त्वरया दन्तधावनम्। प्रभाते कुरुते प्राज्ञःसूर्य्योदयविवर्जिते। सूर्य्योदये द्विजश्रेष्ठ! यः कुर्य्याद्दन्त-धावनम्। नित्यक्रियाफलं तस्य सर्वमेव विनश्यति। यः स्नानसमये कुर्य्यात् जैमिने! दन्तधावनम्। निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः। दन्तस्य धावनं कुर्य्याद्यो मध्याह्नापराह्णयोः। तस्यपुष्पं न गृह्णन्ति देवताः पितरो ज्रलम्। स्नानकाले[Page3465-a+ 38] पुष्करिण्यां यः कुर्य्याद्दन्तधावनम्। तावज्ज्ञेयः सचाण्डालो यावद् गङ्गां न पश्यति। भगवत्युदितेसूर्य्ये यः कुर्य्याद्दन्तधावनम्। तद्दन्तकाष्ठीं पितरोभुक्त्वा गच्छन्ति दुःखिनः। उपवासदिने विप्र! पितृ-श्राद्धदिने तथा। न च तत्फलमाप्नोति दन्तधावनकृन्नरः। प्रभाते मार्जयेद्दन्तान् वाससा रसनां तथा। कुर्य्याद्वादश विप्रेन्द्र! कवलानि जलैर्बुधः। उपवासेपितृश्राद्ध्वे विधिनानेन जैमिने!। दन्तधावनकृन्मर्त्यःसंपूर्णं लभते फलम्” पाद्मे क्रियायोगसारः।
“ऊषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत्। ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्वकम्। मुखे पर्य्यु-षिते नित्यं भवत्यप्रयतो नरः। तस्मात् सर्वप्रय-त्नेन भक्षयेद्दन्तधावनम्। कदम्बविल्वखदिरकर-वीरवटार्जुनाः। तगरं वृहती जातीकरञ्जार्काति-मुक्तकाः। जम्बूमधूकापामार्गशिरीषोडुम्बरासनाः। क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने। कटुतिक्त-कषायाश्च धनारोग्यसुखप्रदाः। प्रक्षाल्य भुक्त्वा चशुचौ देशे त्यक्त्वा तदाचमेत्। अमावास्यां तथा षष्ठ्यांनवम्यां प्रतिपद्यपि। वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्यवासरे। अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ। अपां द्वादश गण्डूषैः कुर्व्वीत मुखशोधनम्” इतिगारुडे
२१
४ अ॰
“मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्ज-नम्। पूर्वाह्ण एव कुर्वीत देवतानाञ्च पूजनम्” मनुः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तधावन¦ n. (-नं)
1. A tooth brush, or a fibrous stick used for cleaning the teeth.
2. Cleaning the teeth. m. (-नः)
1. A tree yielding an astringent resin, (Mimosa catechu.)
2. A plant, (Mimusops elengi) see वकुल। E. दन्त a tooth, and धाव् to clean, affix ल्युट् |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तधावन/ दन्त--धावन n. id. Kaus3. Gaut. Mn. iv Ya1jn5. i MBh. etc.
दन्तधावन/ दन्त--धावन n. = -पवनR. ii Sus3r. iv , 22 Pa1n2. 6-2 , 150 Ka1s3. GarP
दन्तधावन/ दन्त--धावन n. N. of a ch. of PSarv.
दन्तधावन/ दन्त--धावन m. Acacia Catechu L.
दन्तधावन/ दन्त--धावन m. Mimusops Elengi L.
दन्तधावन/ दन्त--धावन m. a kind of करञ्जL.
