सामग्री पर जाएँ

दन्तधावनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तधावनम्, क्ली, (दन्तानां धावनम् ।) दन्त- मार्ज्जनम् । (दन्तानां धावनं यस्मात् ।) दन्त- काष्ठम् । यथा, गारुडे २१४ अध्याये । “उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् । ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्ब्बकम् ॥ मुखे पय्युषिते नित्यं भवत्यप्रयतो नरः । तस्मात् सर्व्वप्रयत्नेन भक्षयेद्दन्तधावनम् ॥ कदम्बविल्वखदिरकरवीरवटार्ज्जुनाः । तगरं बृहती जातिकरञ्जार्कातिमुक्तकाः ॥ जम्बूमघूकापामार्गशिरीषोडुम्बराशनाः । क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने ॥ कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः । प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचमेत् ॥ अमावास्यां तथा षष्ठ्यां नवम्यां प्रतिपद्यपि । वर्ज्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे ॥ अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ । अपां द्वादशगण्डूषैः कुर्व्वीत मुखशोधनम् ॥” दन्तशुद्धिः । तस्य विधिर्यथा, -- “प्रातर्भुङ्क्त्वा च मृद्बग्रं कषायकटुतिक्तकम् । भक्षयेद्दन्तपवनं दन्तमांसान्यवाधयन् ॥” * ॥ तस्य काष्ठानि यथा, -- “केऽप्यत्र करवीराम्रकरञ्जवकुलाशनान् ।

"https://sa.wiktionary.org/w/index.php?title=दन्तधावनम्&oldid=139547" इत्यस्माद् प्रतिप्राप्तम्