दन्तरोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तरोगः, पुं, (दन्तस्य रोगः ।) रदनामयः । तन्निदानादि दन्तशब्दे द्रष्टव्यम् । तस्यौषधं यथा, “काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ! । चर्व्वित्वा दन्तरोगाणां विनाशो हि भवेद्धर ! ॥” दन्तरोगाणामित्यत्र दन्तकीटानामिति पुस्तका- न्तरे पाठः ॥ इति गारुडे १८९ अध्यायः ॥ अपि च गारुडे १९८ अध्याये । “शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥ सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा । भुजग्रन्थि विडं मुस्तं मधु शुक्रं चतुर्गुणम् ॥ मातुलुङ्गरसञ्चैव कदलीरसमेव च । तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् । वाधिर्य्य कर्णनादश्च पूयस्रावश्च दारुणः । पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥ क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! । क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥” अन्यच्च । “तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् । द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गणैः ॥ लोध्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः । चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ॥ दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् । शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ॥ हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् । लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ॥ इति लाक्षाद्यं तैलम् । जयेद्विस्रावणैः स्विन्नमबलं कृमिदन्तकम् । तथा च पीतैर्व्वातघ्नैः स्नेहगण्डूषधारणैः ॥ भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः । कृमिदन्तापहं कोष्णं हिङ्गुदन्तान्तरे स्थितम् ॥ बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः । गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमकः ॥ नीली वायसजङ्घा कटुतुम्बीमूलमेकैकम् । संचूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः ॥ स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च । निर्यूहाश्चानिलाघ्नानां दन्तहर्षप्रमर्दनाः ॥ त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कवल इत्यर्थः । स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च । पेया रसयवाग्वश्च क्षीरसन्तानिकाघृतम् ॥ शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः । अत्र दन्तहर्षे । अच्छिद्रदन्तमूलानि शर्करामुद्धरेद्भिषक् । लाक्षाचूर्णैर्म्मधुयुतैस्ततस्तान् प्रतिसारयेत् ॥ दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः । कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता ॥ अत्र दन्तशर्करायाम् । एषा क्रिया दन्तहर्ष- क्रिया । फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् । तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत् ॥” इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तरोग¦ पु॰
६ त॰। मुखरोगान्तर्गते दन्तदन्तमूलगते रोग-भेदे स च रोगः सुश्रुते उक्तो यथा।
“अथातो मुखरोगाणां निदानं व्याख्यास्यामः। मुख-[Page3466-a+ 38] रोगाः पञ्चषष्टिः सप्तखायतनेशु तत्रायतनान्योष्ठौदन्तमूलानि दन्ता जिह्वा तालुकण्ठः
“सर्वाणिचेति। तत्राष्टावोष्ठयोः। पञ्चदश दन्तमूलेषु, अष्टौदन्तेषु, इति चोपक्रम्योक्तं यथा।
“दन्तमूलगतास्तु शीतादो
१ दन्तपुप्पुटको
२ दन्तवेष्टकः
३ शौषिरो
४ महाशौषिरः
५ परिदर
६ उपकुशो
७ दन्तवैदर्भो
८ वर्द्धनो
९ ऽधिमांसो
१० नाड्यः
१५ पञ्चेति” इत्युद्दिश्य
“शोणितंदन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्त्तते। दुर्गन्धीनि सकृष्णानिप्रक्लेदीनि मृदूनि च। दन्तमांसानि शीर्य्यन्ते पचन्तिच परस्परम्। शीतादो नाम स व्याधिः कफशो-णितसम्भवः
१ । दन्तयोस्त्रिषुं वा यस्य श्वयथुः सरुजोमहान्। दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः
२ । स्रवन्ति पूयरुधिर वला दन्ता भवन्ति च। दन्तवेष्टःस विज्ञेयो दुष्टशोणितसम्भवः
३ । श्वयथुर्दन्तमूलेषु रुजा-वान् कफरक्ततः। लालास्रावी स विज्ञेयः कण्डू-मान् शौषिरो गदः
४ । दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्य-वदीर्य्यते। दन्तमांसानि पच्यन्ते मुखञ्च परिपी-ड्यते। यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः
५ । दन्तमांसानि शीर्य्यन्ते यस्मिन् ष्ठीवति चाप्यसृक्। पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः
६ । वेष्टेषुदाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च। आघट्टिताःप्रस्रवन्ति शोणितं मन्दवेदनाः। आध्मायन्ते स्रुतेरक्ते मुखं पूति च जायते। यस्मिन्नुपकुशः सस्यात्पित्तरक्तकृतो गदः
७ । घृष्टेषु दन्तमूलेषु संरम्भोजायते महान्। भवन्ति च चलादन्ताः स वैदर्भो-ऽभिघातजः
८ । मारुतेनाधिको दन्तो जायते तीव्र-वेदनः। वर्द्धनः स मतो व्याधिर्जाते रुक्च प्रशा-म्यति
९ । हातव्ये पश्चिमे दन्ते महान् शोथो महा-रुजः। लालास्रावो कफकृतो विज्ञेयः सोऽधिमांसकः
१० । दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः
१५ ।
“दन्त-गतास्तु दासनः
१ क्रिमिदन्तको
२ दन्तहर्षो
३ भञ्जनकः
४ दन्तशर्करा
५ कपालिका
६ श्यावदन्तो
७ हनुमोक्ष
८ श्चेति। दाल्यन्ते बहुधा दन्ता यस्मिंस्त्रीव्ररुगन्विताः। दालनः स इति ज्ञेयः सदागतिनिमित्तजः। कृष्ण-श्छिद्री च{??} स्रावी ससंरम्भो महारुजः
१ । अनि-मित्तरुजो वाताद्विज्ञेयः क्रमिदन्तकः
२ । दशनाः शीत-मुष्णञ्च सहन्ते स्पर्शनं न च। यत्र तं दन्तहर्षन्तुव्याधिं विद्यात्समीरणात्
३ वक्त्रं वक्रं भवेद्यस्मिन्[Page3466-b+ 38] दन्तभङ्गश्च तीव्ररुक्। कफवातकृतो व्याधिः स भञ्जन-कसंज्ञितः
४ । शर्करेव स्थिरीमूतो मलोदन्तेषु यस्यवै। सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा
५ । दलन्ति दन्तवल्कानि यदा शर्करया सह। ज्ञेयाकपालिका सैव दशनांनां विनाशिनी
५ । योऽसृग्मि-श्रेण पित्तेन दग्धो दन्तस्त्वशेषतः। श्यावतां नीलतांवापि गतः स श्यावदन्तकः
७ । वातेन तैस्तैर्भावैस्तुहनुसन्धिर्विसंहतः। हनुमोक्ष इति ज्ञेयो व्याधिर-र्दितलक्षणः
८ ”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तरोग/ दन्त--रोग m. tooth-ache Sus3r. iv , 22 ,
