सामग्री पर जाएँ

दन्तरोगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तरोगः, पुं, (दन्तस्य रोगः ।) रदनामयः । तन्निदानादि दन्तशब्दे द्रष्टव्यम् । तस्यौषधं यथा, “काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ! । चर्व्वित्वा दन्तरोगाणां विनाशो हि भवेद्धर ! ॥” दन्तरोगाणामित्यत्र दन्तकीटानामिति पुस्तका- न्तरे पाठः ॥ इति गारुडे १८९ अध्यायः ॥ अपि च गारुडे १९८ अध्याये । “शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥ सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा । भुजग्रन्थि विडं मुस्तं मधु शुक्रं चतुर्गुणम् ॥ मातुलुङ्गरसञ्चैव कदलीरसमेव च । तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् । वाधिर्य्य कर्णनादश्च पूयस्रावश्च दारुणः । पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥ क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! । क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥” अन्यच्च । “तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् । द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गणैः ॥ लोध्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः । चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ॥ दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् । शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ॥ हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् । लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ॥ इति लाक्षाद्यं तैलम् । जयेद्विस्रावणैः स्विन्नमबलं कृमिदन्तकम् । तथा च पीतैर्व्वातघ्नैः स्नेहगण्डूषधारणैः ॥ भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः । कृमिदन्तापहं कोष्णं हिङ्गुदन्तान्तरे स्थितम् ॥ बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः । गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमकः ॥ नीली वायसजङ्घा कटुतुम्बीमूलमेकैकम् । संचूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः ॥ स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च । निर्यूहाश्चानिलाघ्नानां दन्तहर्षप्रमर्दनाः ॥ त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कवल इत्यर्थः । स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च । पेया रसयवाग्वश्च क्षीरसन्तानिकाघृतम् ॥ शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः । अत्र दन्तहर्षे । अच्छिद्रदन्तमूलानि शर्करामुद्धरेद्भिषक् । लाक्षाचूर्णैर्म्मधुयुतैस्ततस्तान् प्रतिसारयेत् ॥ दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः । कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता ॥ अत्र दन्तशर्करायाम् । एषा क्रिया दन्तहर्ष- क्रिया । फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् । तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=दन्तरोगः&oldid=139565" इत्यस्माद् प्रतिप्राप्तम्