दन्तशर्करा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तशर्करा, स्त्री, (दन्तस्य शर्करेव ।) दन्तरोग- विशेषः । कफवायुशोषितदन्तगतमलम् । पाथुरि इति भाषा ॥ (तस्य लक्षणं यथाह माधवकरः । “मलो दन्तगतो यस्तु कफमारुतशोषितः । शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥” यथा च सुश्रुते निदानस्थाने १६ अध्याये । “शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै । सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा ॥”) तस्यौषधम् यथा, -- “गोरक्षकर्कटीमूलं पिष्टं वास्योदकेन च । पीतं दिनत्रयेणैव नाशयेत् दन्तशर्कराम् ॥” इति गारुडे १९० अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तशर्करा¦ स्त्री दन्तस्य शर्करेव। दन्तरोगभेदे दन्तरोगशब्देदृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तशर्करा¦ f. (-रा) Tarter of the teeth. E. दन्त tooth, and शर्करा sand.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्तशर्करा/ दन्त--शर्करा f. tartar of the teeth , 23 ; ii , 16 .