सामग्री पर जाएँ

दन्तहर्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्तहर्षः, पुं, (दन्तानां हर्षो यस्मात् ।) दन्त- रोगविशेषः । इति माधवकरः ॥ (अस्य लक्षणं यथा, सुश्रुते निदानस्थाने १६ अध्याये । “दशनाः शीतमुष्णञ्च सहन्ते स्पर्शनं न च । यस्य तं दन्तहर्षन्तु व्याधिं विद्यात् समीरणात् ॥” दन्तग्लानिः । यथा, -- “यस्य वै स्नातमात्रस्य हृदयं पीड्यते भृशम् । जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥” इति वायुपुराणम् ॥)

"https://sa.wiktionary.org/w/index.php?title=दन्तहर्षः&oldid=139584" इत्यस्माद् प्रतिप्राप्तम्