दन्त्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दन्त्यः, त्रि, (दन्तेषु भवः । दन्त + “शरीरावय- वाच्च ।” ४ । ३ । ५५ । इति यत् ।) दन्तोद्भवः । इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥” दन्तेभ्योहितः । “शरीरावयवाद्यत् ।” ५ । १ । ६ । इति यत् । दन्तहितजनकः । यथा, सुश्रुते । १ । ४६ । “दन्त्योऽग्निमेधाजननोऽल्पमूत्र- स्तन्योऽथ केश्योऽनिलहा गुरुश्च ॥”)
