सामग्री पर जाएँ

दन्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्श, औ दंशने । इति कविकल्पद्रमः ॥ (भ्वां- परं-सकं-अनिट् ।) औ, अदाङ्क्षीत् । दशति विम्बफलं शुकशावकः । दंशनमित्यनुस्वारहीनं पठित्वा तन्निर्द्देशात् अनटि नकारलोप इत्याहुः । अतएव दशनो दन्तः । नाहिर्द्दंशयते कञ्चि- द्विद्यया गरुडाख्यया । इति हलायुघः । भट्ट- मल्लमते दंशनमिह सन्नाहः । तेन अदंशयन्न- वहितशौर्य्यदंशनास्तनूरयं नय इति वृष्णिभू- भृतः । इति माघः । तनूः कवचवृताश्चक्रुरि- त्यर्थः । अत्र परस्मैपदं चिन्त्यमिति वल्लभः । वस्तुतस्तु दंशं फरोतीति ञौ साध्यम् । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दन्श¦ हिंसने रदकरणकव्यापारभेदे दंशने (कामडान)भ्वा॰ पर॰ सक॰ अनिट्। दशति अदाङ्क्षीत् ददंश।
“करौनिरोद्धुर्दशति स्म केवलम्”
“कटुकीटान् दशतः सतःक्वचित्” नैष॰। दृष्टः दंष्ट्वा।

"https://sa.wiktionary.org/w/index.php?title=दन्श&oldid=284254" इत्यस्माद् प्रतिप्राप्तम्