सामग्री पर जाएँ

दमनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दमनः, पुं, (दाम्यतीति । दम + ल्युः ।) पुष्प- विशेषः । दोना इति भाषा । तत्पर्य्यायः । पुष्पचामरः २ । इति त्रिकाण्डशेषः ॥ (यथा, “दमनस्तु वरस्तिक्तो हृद्यो वृष्यः सुगन्धिकः । ग्रहणाद्विषकुष्ठास्रक्लेदकण्डूत्रिदोषजित् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वीरः । उपशान्तः । इति शब्दरत्नावली ॥ कुन्दवृक्षः । इति राजनिर्घण्टः ॥ (ऋषि- विशेषः । यथा, महाभारते । ३ । ५३ । ६ । “तमभ्यच्छत् ब्रह्मर्षिर्दमनो नाम भारत ! । तं स भीमः प्रजाकामस्तोषयामास धर्म्मवित् ॥” अस्य भीमस्य पुत्त्रविशेषः । यथा, तत्रैव । ३ । ५३ । ९ । “कन्यारत्नं कुमारांश्च त्रीनुदारात् महायशाः । दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ३४ । “मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ॥” “स्वाधिकारात् प्रमाद्यन्तीः प्रजा दमयितुं शीलं यस्य वैवस्वतादिरूपेण स दमनः ।” इति तद्भाष्ये शङ्कराचार्य्यः ॥ महादेवः । यथा, महाभारते । १३ । १७ । १३६ । “महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दमनः&oldid=139634" इत्यस्माद् प्रतिप्राप्तम्