दमनकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दमनकः, पुं, (दमन एव । स्वार्थे कन् ।) वृक्ष- विशेषः । दोना दति भाषा । तत्पर्य्यायः । दमनः २ दान्तः ३ गन्धोत्कटा ४ मुनिः ५ जटिला ६ दण्डी ७ पाण्डुरागः ८ ब्रह्मजटा ९ पुण्डरीकः १० तापसपत्री ११ पत्री १२ पवि- त्रकः १३ देवशेखरः १४ कुलपत्रः १५ विनीतः १६ तपस्विपत्रः १७ । इति राजनिर्घण्टः ॥ मुनि- पुत्त्रः १८ तपोधनः १९ गन्धोत्कटः २० ब्रह्म- जटी २१ कुलपुत्त्रकः २२ । इति भावप्रकाशः ॥ अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । कषाय- त्वम् । कटुत्वम् । कुष्ठदोषद्बन्द्बत्रिदोषविष- विस्फोटविकारहरत्वञ्च । इति राजनिर्घण्टः ॥ हृद्यत्वम् । वृष्यत्वम् । सुगन्धित्वम् । ग्रहण्यस्र- क्लेदकण्डूनाशित्वञ्च । इति भावप्रकाशः ॥ (क्ली, षडक्षरच्छन्दोविशेषः । यथा, चिन्तामणिधृत- वचनम् । “द्विगुणनगणमिह वितनु हि । दमनकमिति गदति शुचि हि ॥” एकादशाक्षरच्छन्दोविशेषोऽपि । यथा, तत्रैव । “द्विजवरगणयुगममलं तदनु च कलय कर- तलम् । फणिपतिवरपरिगदितं दमनकमिदमति- ललितम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दमनकः [damanakḥ], N. of a tree.
