दमनकारोपणोत्सव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दमनकारोपणोत्सवः, पुं, (दमनकस्य आरोप- णार्थं य उत्सवः ।) श्रीकृष्णस्य दमनकार्पणार्थ- महापूजारूपोत्सवः । यथा, -- “चैत्रस्य शुक्लद्बादश्यां दमनारोपणोत्सवम् । विदध्यात्तद्बिधिर्बौधायनाद्युक्तोऽत्र लिख्यते ॥ मधोः सितैकादश्याञ्च प्रातःकृत्यं समाप्य च । गत्वा दमनकारामं तत्राशोकं स्मरं यजेत् ॥ तत्र मन्त्रः । अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन ! । शीकार्त्तिं हर मे नित्यमानन्दं जनयस्व मे ॥ नेष्यामि कृष्णपूजार्थं त्वां कृष्णप्रीतिकारकम् । इति संप्रार्थ्य नत्वा च गृह्णीयाद्दमनं शुभम् ॥ प्रोक्ष्य तत् पञ्चगव्येन प्रक्षाल्याद्भिः प्रपूज्य च । वस्त्रेणाच्छाद्य वेदादिघोषेण गृहमानयेत् ॥ * ॥ अथ दमनकाधिवासविधिः । कृष्णस्याग्रे समुद्धृत्य सर्व्वतोभद्रमण्डलम् । निघाय दमनं तत्र रात्रौ तदधिवासयेत् ॥ तत्र मन्त्रः । पूजार्थं देवदेवस्य विष्णोर्लक्ष्मीपतेः प्रभोः । दमन ! त्वमिहागच्छ सान्निध्यं कुरुते नमः ॥ इति सबीजं कामदेवञ्च तथा भस्मशरीरकम् । अनङ्गं मन्मथञ्चैव वसन्तसखमेव च ॥ स्मरं तथेक्षुचापञ्च पुष्पबाणञ्च पूजयेत् । प्रागादिदिक्षु रत्याढ्यं विधिवद्दमने क्रमात् ॥ अष्टोत्तरशतं कामगायत्त्र्या चाभिमन्त्र्य तत् । दत्त्वा पुष्पाञ्जलिं कामदेवं वन्देत मन्त्रवत् ॥ मन्त्रश्चायम् । नमोऽस्तु पुष्पबाणाय जगदाह्लादकारिणे । मन्मथाय जगन्नेत्रे रतिप्रीतिप्रदायिने ॥ इति ॥ आमन्त्रितोऽसि देवेश ! पुराणपुरुषोत्तम ! । प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव ! ॥ निवेदयाम्यहं तुभ्यं प्रातर्द्दमनकं शुभम् । सर्व्वथा सर्व्वदा विष्णो ! नमस्तेऽस्तु प्रसीद मे ॥ इत्थमामन्त्र्य देवेशं दत्त्वा पुष्पाञ्जलिं पुनः । गोतनृत्यादिना रात्रौ कुर्य्याज्जागरणं मुदा ॥ * ॥ अथ दमनकार्पणविधिः । प्रातःस्नानादि निर्व्वर्त्य नित्यपूजां विधाय च । दमनारोपणार्थञ्च महापूजां समाचरेत् ॥ ततो दमनकं भक्त्या पाणिभ्यां परिगृह्य च । घण्टादिवाद्यघोषेण श्रीकृष्णाय समर्पयेत् ॥ तत्र मन्त्रः । देवदेव जगन्नाथ वाञ्छितार्थप्रदायक ! । कृत्स्नान् पूरय मे कृष्ण कामान् कामेश्वरीप्रिय ! ॥ इदं दमनकं देव गृहाण मदनुग्रहात् । इमां सांवत्सरीं पूजां भगवन्निह पूरय ॥ इति ॥ ततो दामनकीं मालां गन्धादीनि समर्प्य च । गीतादिनोत्सवं कृत्वा श्रीकृष्णं प्रार्थयेदिदम् ॥ मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः । इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ! ॥ वनमालां यथा देव ! कौस्तुभं सततं हृदि । तद्बद्दामनकीं मालां पूजाञ्च हृदये वहेत्यादि ॥ भगवन्तं प्रणम्याथ गुरुं संपूज्य भक्तितः । संपूज्य ब्राह्मणान् शक्त्या भूञ्जीत सह बन्धुभिः ॥ पारणाहे न लभ्येत द्वादशी घटिकापि चेत् । तदा त्रयोदशी ग्राह्या पवित्रा दमनार्पणे ॥ न कृष्णे दमनारोपः स्यान्मधौ विघ्नतो यदि । वैशाख्यां श्रावणे मासि कर्त्तव्यं वा तदर्पणम् ॥ अतएवोक्तं ब्रह्मणा देवीपुराणे । चैत्रादौ कारयेत् पूजां सम्यग्वत्स ! यथाविधि ॥ गन्धधूपार्घ्यनैवेद्यैर्म्माल्यैर्द्दमनकोद्भवैः । सहोमं पूजयेद्देवं सर्व्वान् कामानवाप्नुयात् ॥ सर्व्वतीर्थाभिषेकस्य फलं प्राप्नोति मानवः ॥” इति श्रीहरिभक्तिविलासे १४ विलासः ॥
