दमितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दमितः, त्रि, (दम्यते स्म इति । दम + क्तः । “वा दान्तशान्तेति ।” ७ । २ । २७ । इति पक्षे इट् ।) दान्तः । इत्यमरः । ३ । १ । ९७ ॥ (यथा, हरिवंशे । ६७ । ५६ । “यथेयं सरिदम्भोदा भवेच्छिवजलाशया । व्रजोपभोग्या च यथा नागे वै दमिते मया ॥”) क्लेशसहमात्रम् । इति भरतः ॥ भारवाहनादि- क्लेशसहः । इति सुभूतिः ॥
