दमी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दमी, [न्] त्रि, (दमोऽस्यास्तीति । दम + इनिः ।) दमनविशिष्टः । (तीर्थविशेषे, क्ली । तत्प्रव- र्त्तक-ऋषिभेदे, पुं, । यथा, महाभारते । ३ । ८२ । ७१ -- ७४ । “प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ! । तीर्थं कुरुवरश्रेष्ठ ! त्रिषु लोकेषु विश्रुतम् ॥ दमीति नाम्ना विख्यातं सर्व्वपापप्रमोचनम् । यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥ तत्र स्नात्वार्च्चयित्वा च रुद्रं देवगणैर्वृतम् । जन्मप्रभृति यत् पापं तत् स्नातस्य प्रणश्यति ॥ दमी चात्र नरश्रेष्ठ ! सर्व्वदेवैरभिष्टुतः । तत्र स्नात्वा नरश्रेष्ठ ! हयमेधमवाप्नुयात् ॥” दमीत्यत्र द्रिमीति क्वचित् पाठः ॥)
