सामग्री पर जाएँ

दमूनाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दमूनाः, [स्] पुं, (दमुनस् + अन्येषामपि दृश्यते इति पत्त्रे दीर्घः । यद्वा, दमेरूनसिरिति पठित्वा ऊनसिप्रत्ययः ।) अग्निः । इति शब्दरत्नावली ॥ (त्रि, दमनीयः । यथा, ऋग्वेदे । १ । १४१ । ११ । “अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ॥” दानमनाः । दान्तचित्तः । यथा, तत्रैव । ५ । ४ । ५ । “जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञ- मुपयाहि विद्वान् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दमूनाः&oldid=139647" इत्यस्माद् प्रतिप्राप्तम्