दयालुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दयालुः, त्रि, (दयते इति । दय + “स्पृहिगृहीति ।” ३ । २ । १५८ । इति आलुच् ।) दयायुक्तः । तत्पर्य्यायः । कारुणिकः २ कृपालुः ३ सूरतः ४ । इत्यमरः । ३ । १ । १५ ॥ (यथा, रघुः । १० । १९ । “दयालुमनघस्पृ ष्टं पुराणमजरं विदुः ॥”)
