सामग्री पर जाएँ

दरत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दरत्, [द्] स्त्री, (दृणातीति । दॄ विदारणे + “शॄदभसोऽदिः ।” उणां । १ । १२९ । इति अदिः ।) प्रपातः । भयम् । पर्व्वतः । इति मेदिनी । दे, ३० ॥ म्लेच्छजातिः । इति लिङ्गादिसंग्रहे अमरः ॥ (देशविशेषः । यथा, राजतरङ्गिण्याम् । १५७ । “दरत्तुरस्काधिपयोर्यः केशरिवराहयोः । हिमवद्बिन्ध्ययोरासीदार्य्यावर्त्त इवान्तरे ॥”) हृत् । तीरम् । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥

"https://sa.wiktionary.org/w/index.php?title=दरत्&oldid=139673" इत्यस्माद् प्रतिप्राप्तम्