सामग्री पर जाएँ

दरदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दरदः, पुं, (दरं भयं ददातीति । दा + कः ।) देश- विशेषः । भयम् । म्लेच्छजातिभेदः । इति शब्दरत्नावली ॥ (अयन्तु पूर्ब्बं क्षत्त्रिय आसीत् पश्चात् क्रमशः उपनयनादिक्रियालोपात् शूद्र- त्वादिकं प्राप्तः । यदुक्तं मनौ । १० । ४३-४४ । “शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः । पारदा पह्नवाश्चीनाः किराता दरदाः खशाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दरदः&oldid=139677" इत्यस्माद् प्रतिप्राप्तम्