दरदम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दरदम्, क्ली, (दर ईषत् दायति शुध्यतीति । दै + कः ।) हिङ्गुलम् । इति राजनिर्घण्टः ॥ (क्वचित् पुंलिङ्गेऽपि दृश्यते । अस्य पर्य्यायो यथा, -- “रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥” इति वैद्यकरत्नमालायाम् ॥ पर्य्यायान्तरं यथा, -- “हिङ्गुलन्दरदं म्लेच्छं चित्राङ्गञ्चूणपारदम् । दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुकतुण्डकः ॥ हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरम् । चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः ॥ जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥” इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथमे भागे ॥ “दरदं तण्डुस्थूलं कृत्वा मृत्पात्रके त्रिदिनम् । भार्ञ्च जम्बीररसैश्चाङ्गेर्य्या वा रसैर्बहुधा ॥ ततश्च जम्बीरवारिणा चाङ्गेर्य्या रसेन परिप्लुतम् । कृत्वा स्थालीमध्ये निधाय तदुपरिकठिनीघृष्टम् ॥ चारु शरावं तत्र त्रिंशद्वारं जलं देयं उष्णे हेयं तथैव तदूर्द्ध्वपातनेन निर्म्मलं शिवजः ॥” “हिङ्गुले हिङ्गुलुर्याति दरदः शुकतुण्डकः । रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः ॥ अम्लवर्गद्रवैः पिष्ट्वा दरदो माहिषेण च । दुग्धेन सप्तधा पिष्टः शुष्कीभूतो विशुध्यति ॥ अन्यच्च । मेषीदुग्धेन दरदमम्लवर्गैर्विभावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ अन्यमतम् । दरदं दोलिकायन्त्रे पक्वं जम्बीरजैर्द्रवैः । सप्तवारमजामूत्रैर्भावितं शुद्धिमेति हि ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)
