दरिद्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दरिद्रः, पुं, (दरिद्राति दुर्गच्छतीति । दरिद्रा + अच् ।) निर्धनः । तत्पर्य्यायः । निस्वः २ दुर्विधः ३ दीनः ४ दुर्गतः ५ । इत्यमरः । ३ । १ । ४९ ॥ कीकटः ६ दुस्थः ७ । इति जटाधरः ॥ अस्तमितः ८ । इति दानधर्म्मः । तस्य कारणं यथा, -- “अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च । अदत्त्वा हेमधेनूश्च दरिद्रो जायते नरः ॥” इति पाद्मे भूखण्डम् ॥ “दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः ॥” इति श्रीभागवतम् ॥
