सामग्री पर जाएँ

दर्द्दुरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दर्द्दुरः, पुं, (दृणाति कर्णौ शब्देनेति । दॄ + “मकुरदर्द्दुरौ ।” उणां । १ । ४१ । इति उरच् प्रत्ययेन निपातनात् साधुः ।) भेकः । इत्यमरः । १ । १० । २४ ॥ (यथा, -- “भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे । दर्द्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥” इत्युद्भटः ॥) मेघः । वाद्यभाण्डभेदः । पर्व्वतविशेषः । इति मेदिनी । रे, १६७ ॥ (यथा, रघौ । ४ । ५१ । “स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदर्द्दुरौ ॥”) राक्षसः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (अभ्रकधातुभेदः । यथा, भावप्रकाशे । “पिनाकं दर्द्दुरं नागं वज्रञ्चेति चतुर्व्विधम् ॥” “दर्द्दरं स्वग्निनिक्षिप्तं कुरुते दर्द्दुरध्वनिम् । गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दर्द्दुरः&oldid=139703" इत्यस्माद् प्रतिप्राप्तम्