दर्पणः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पणः, पुं, क्ली, (दर्पयति सन्दीपयतीति । दृप् + णिच् + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति ल्युः ।) रूपदर्शनाधारः । आर्शि इति भाषा । तत्पर्य्यायः । मुकुरः २ आदर्शः ३ । इत्यमरः । २ । ७ । १४० ॥ आत्मदर्शः ४ नन्दरः ५ दर्शनम् ६ प्रतिविम्बातम् ७ । इति शब्दरत्ना- वली ॥ कर्कः ८ कर्करः ९ । दति जटाधरः ॥ (यथा, चाणक्ये । १०९ । “यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥”) अस्य गुणः । आयुःश्रीकारित्वम् । पापनाशि- त्वञ्च । इति राजवल्लभः ॥ पुं, पर्व्वतभेदः । नद- विशेषः । यथा, -- और्व्व उवाच । “ततः पूर्ब्बं महाराज ! दर्पणो नाम पर्व्वतः । कुवेरो यत्र वसति धनपालैः समं सदा । यस्मिन्नास्ते मध्यभागे रोहिणो रोहिताकृतिः । यस्मि~ल्लोहादिकं स्पृष्टं स्वर्णतां याति तत्क्षणात् ॥ यन्नातिदूरे स्रवति दर्पणो नाम वै नदः । हिमाद्रिप्रभवो नित्यं लौहित्यसदृशः फले ॥ समुत्पन्नं हि लौहित्यं सर्व्वैर्देवगणैर्हरिः । सर्व्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् ॥ तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः । तेनायं दर्पणो नाम पुरा देवगणैः कृतः ॥ तस्मिन् स्नात्वा नदवरे योऽर्च्चयेद्दर्पणाचले । कुवेरं प्रतिपत्तिथ्यां कार्त्तिके शुक्लपक्षतः ॥ स याति ब्रह्मसदनमिह भूतिशतैर्युतः ॥” इति कालिकापुराणे ८१ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पणः [darpaṇḥ], [दृप्-ल्यु]

A looking-glass, mirror; लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति Chāṇ.19; Ku.7.26; R.1. 1;14.37.

N. of a mountain inhabited by Kubera.

णम् The eye.

Kindling, inflaming, making proud.

"https://sa.wiktionary.org/w/index.php?title=दर्पणः&oldid=500160" इत्यस्माद् प्रतिप्राप्तम्