दर्भः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दर्भः, पुं, (दृणाति विदारयतीति । “दॄदलिभ्यां भः ।” उणां ३ । १५१ । इति भः ।) कुशः । इत्यमरः । २ । ४ । १६६ ॥ उलपतृणम् । इति रत्न- माला ॥ काशः । इति शब्दरत्नावली ॥ * ॥ (“कुशो दर्भस्तथा बर्हिः सूच्यग्रो यज्ञभूषणः । ततोऽन्यो दोधेपत्रः स्यात् चुरपत्रस्तथैव च ॥ दर्भद्वयं त्रिदोषघ्नं मधुरन्तुवरं हिमम् । मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुकप्रदरास्रजित् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) “हरिताः सपिञ्जलाश्चैव पुष्टाः स्निग्धाः समा- हिताः । गोकर्णमात्रास्तु कुशाः सकृच्छिन्नाः समूलकाः ॥ पितृतीर्थेन देयाः स्युर्दूर्व्वाश्यामाकमेव च । काशाः कुशा बल्वजाश्च तथान्ये तीक्ष्णरोमशाः । मौञ्जाश्च शाद्बलाश्चैव षड्दर्भाः परिकीर्त्तिताः ॥ सपिञ्जलाः साग्राः तीक्ष्णरोमशा इति बल्व- जानां विशेषणम् । शाद्वला इति सर्व्वेषां विशे- षणम् । तेन तेषामभावे शूकतृणशरशीर्य्यवल्वज- नलशुण्ठवर्जं सर्व्वतृणानीति गोभिलेन तद्ब्यति- रिक्तवल्वजानां निषेधो बोद्धव्यः । शूकानि फलपुष्पमञ्जर्य्यस्तानि येषां तृणानां सन्ति तानि शूकतृणानि इति भट्टनारायणचरणाः ॥ गो- कर्णमिता विस्तृताङ्गुष्ठानामिकापरिमाणाः । रत्निप्रमाणाः शस्ता वै पितृतीर्थेन संस्कृताः । उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः ॥ इति वायुपुराणम् ॥ * ॥ वज्यप्रतिप्रसवमाह हारीतः । पथि दर्भाश्चितौ दर्भा ये दर्भा यज्ञभूमिषु । स्तरणासनपिण्डेषु षड्दर्भान् परिवर्जयेत् ॥ पिण्डार्थं ये स्तृता दर्भा यैः कृतं पितृतर्पणम् । मूत्रोच्छिष्टप्रलिप्ते च त्यागस्तेषां विधीयते ॥ धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते । धृतैरित्युपलक्षनेन तृतीया धृतैर्दर्भैरुपलक्षितेन पुरुषेण ॥ नीवीमध्ये च ये दर्भा ब्रह्मसूत्रे च ये धृताः । पवित्रांस्तान् विजानीयाद्यथा कायस्तथा कुशाः ॥ आचम्य प्रयतो नित्यं पवित्रेण द्बिजोत्तमः । नोच्छिष्टन्तु भवेत्तत्तु भुक्तशेषं विवर्जयेत् ॥ कृतं समापितमित्यर्थः ॥ * ॥ दर्भवटुलक्षणमाह रत्नाकरे गृह्यसंग्रहः । ऊर्द्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः । दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः ॥ शान्तिदीपिकायाम् । सप्तभिर्नवभिर्वापि सार्द्धद्बितयवेष्टितम् । ओ~कारेणैव मन्त्रेण द्बिजः कुर्य्यात् कुशद्बिजम् ॥ नवभिरित्यत्र पञ्चभिरिति कर्म्मोपदेशिन्यां पाठः । दर्भसंख्याविशेषाभिधानं छन्दोगेतर- परम् । यज्ञवास्तुनि मुष्ट्याञ्च स्तम्भे ब्रह्मवटौ तथा । दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि ॥ इति गोभिलपरिशिष्टीयवचनात् ।” इति श्राद्ध- तत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दर्भः [darbhḥ], [दृभ्-घञ् अच् वा] A kind of sacred grass (Kuśa grass) used at sacrificial ceremonies &c.; शरासः कुशरासो दर्भासः सैर्या उत Rv.1.191.3. दभैर्रर्धावलीढैः Ś.1.7; R.11. 31; Ms.2.43;3.28;4.36. -Comp. -अङ्कुरः a pointed blade of darbha grass; दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे Ś.2.13. -अनूपः a watery place full of darbha grass-आह्वयः the Muñja grass. -पत्रम् a kind of grass (काश). -लवणम् an instrument for cutting grass.-संस्तरः a bed of Kuśa grass.
