सामग्री पर जाएँ

दर्व्विका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दर्व्विका, स्त्री, (दर्व्वि + स्वार्थे कन् + टाप् ।) दार्व्विका । इत्यमरटीकायां रायमुकुटः ॥ खजाका । इति द्विरूपकोषः ॥ कज्जलम् । यथा, “सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा । दर्व्विका मेघनीलश्च अञ्जनानि भवन्ति षट् ॥” तल्लक्षणम् यथा, कालिकापुराणे ६८ अध्याये । “स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरं तथा । मयूरश्रीकरं रत्नं मेघनीलन्तु तैजसम् ॥ घृष्ट्वा निष्पाद्य चैतानि शिलायां तैजसेऽथवा । प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्त्रक ! ॥ धृततैलादियोगेन ताम्रादौ दीपवह्निना । यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता ॥

"https://sa.wiktionary.org/w/index.php?title=दर्व्विका&oldid=139746" इत्यस्माद् प्रतिप्राप्तम्