सामग्री पर जाएँ

दर्व्वीकरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दर्व्वीकरः, पुं, (दर्व्वीं फणां करोतीति कृ + “कृञो हेतुताच्छील्यानुलोम्येषु ।” ३ । २ । २० । इति टः । यद्वा, दर्व्वी फणा कर इवास्य ।) सर्पः । इत्य- मरः । १ । ८ । ८ ॥ (यथा, सुश्रुते कल्पस्थाने चतुर्थाध्याये । “दर्व्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः । तेषु दर्व्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ॥” “रथाङ्गलाङ्गलच्छत्त्रस्वस्तिकाङ्कुशधारिणः । ज्ञेया दर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः ॥” तत्र दर्व्वीकरभेदा यथा, -- “दर्व्वीकराः कृष्णसर्पो महाकृष्णः कृष्णोदरः श्वेत- कपोतो महाकपोतो बलाहकी महासर्पः शङ्ख- पाली लोहिताक्षो गवेधुकः परिसर्पः खण्डफणः ककुदः पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्ड- रीको भ्रुकुटीमुखो विष्किराः पुष्पाभिकीर्णो गिरिसर्प ऋजुसर्पः श्वेतोदरो महाशिरा अल- गर्द्द आशीविष इति ॥” एतद्विषजनितलक्षणादिकं यथा, -- “तत्र दर्व्वीकरविषेण त्वङ्नयननखदशनमूत्र- पुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धि- वेदना कटीपृष्ठग्रीवादौर्व्वल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कास- श्वासौ हिक्का वायोरूर्द्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च वातवेदना भवन्ति ॥” दर्व्वीकरदष्टानां विष- वेगादिकमाह यथा, -- “तत्र सर्व्वेषां सर्पाणां विषस्य सप्तवेगा भवन्ति । तत्र दर्व्वीकराणां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं कृष्णतामुपैति तेन कार्ष्ण्यपिपीलिका- परिसर्पणमिव चाङ्गे भवति । द्वितीये मांसं दूषयति तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति तृतीये मेदो दूषयति तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणञ्च । चतुर्थे कोष्ठमनु- प्रविश्य कफप्रधानान् दोषान् दूषयति । तेन तन्द्रा प्रसेकसन्धिविश्लेषा भवन्ति । पञ्चमे अस्थीन्यनु- प्रविशति प्राणमग्निञ्च दूषयति तेन पर्व्वभेदो हिक्कादाहश्च भवति । षष्ठे मज्जानमनुप्रवि- शति ग्रहणीञ्चात्यर्थं दूषयति । तेन गात्राणां गौरवमतिसारो हृत्पीडा मूर्च्छा च भवति । सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यथं कोपयति । कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्मवर्त्ति- प्रादुर्भावः कटिपृष्ठभङ्गश्च सर्व्वचेष्टाविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छासनिरोधश्च भवति ॥” अथ दर्व्वीकरदष्टस्य चिकित्सामाह तत्रैव । “फणिनां विषवेगे तु प्रथमे शोणितं हरेत् । द्वितीये मधुसर्पिभ्यां पाययेतागदं भिषक् ॥ नस्य कर्म्माञ्जने युञ्ज्यात् तृतीये विषनाशने । वान्तं चतुर्थे पूर्ब्बोक्तां यवागूमथ दापयेत् ॥ शीतोपचारं कृत्वादौ भिषक् पञ्चमषष्ठयोः । दापयेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम् ॥ सप्तमे त्ववपीडेन शीरस्तीक्षेण शोधयेत् । तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्द्ध्व्नि च ॥ कुर्य्यात् काकपदं चर्म्म सासृग्वा पिशितं क्षिपेत् ॥”) खजाकाकारके, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=दर्व्वीकरः&oldid=139749" इत्यस्माद् प्रतिप्राप्तम्