दर्शः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दर्शः, पुं, (दृश्येते उपर्य्यधोमावापन्नसमसूत्रपात- न्यायेन राश्येकांशावच्छेदेन सहावस्थितौ चन्द्र- सूर्य्यौ यत्र । दृश् + अधिकरणे घञ् ।) अमा- वस्या । इत्यमरः । १ । ४ । ८ ॥ “अन्योऽन्यं चन्द्रसूर्य्यौ तु दर्शनाद्दर्श उच्यते ॥” इति मत्स्यपुराणम् ॥ (अयं शिनीवाल्यां विधातृपत्न्यां तस्मात् जातः । यथा, भागवते । ६ । १८ । ३ । “धातुः कुहूः शिनीवाली राका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥” दृश + भावे घञ् ।) अवलोकनम् । इति मेदिनी । शे, ७ ॥ (यथा, महाभारते । १३ । १४४ । ४५ । “दुर्द्दर्शाः केचिदाभान्ति नराः काष्ठमया इव । प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥”) पक्षान्तकृतयागविशेषः । स यागत्रयात्मकः । यथा । “आग्नेयाष्टाकपालैन्द्रदध्यैन्द्रपयोयागा- स्त्रयोऽमावास्यायां स च यावज्जीवं कर्त्तव्यः कौण्डपायिकर्त्तव्यो माससाध्यश्च ।” इति मल- मासतत्त्वम् ॥
