दर्शकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दर्शकः, पुं, (दर्शयति नृपादिसमीपगमनपथमिति । दृश् + णिच् + ण्वुल् ।) द्वारपालः । इत्य- मरः । २ । ८ । ६ ॥ (जातिविशेषः । यथा, महाभारते । ६ । ९ । ५३ । “काश्मीरा सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥”) त्रि, दर्शयिता । (यथा, कुमारे । ६ । ५२ । “विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ॥”) प्रवीणः । इति मेदिनी । के, १०३ ॥ (प्रका- शकः । यथा, हितोपदेशे । १ । ११ । “अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्व्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥” दृश + ण्वुल् । द्रष्टा । यथा, महाभारते । १ । १४१ । १७ । “एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः । राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥”)
