सामग्री पर जाएँ

दर्शनीयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दर्शनीयः, त्रि, (दृश्यते इति । दृश् + अनीयर् ।) मनोज्ञः । इति धरणिः ॥ (यथा, महाभारते । ११ । १५ । ३० “अङ्गुल्यग्राणि ददृशे देवी पटान्तरेण सा । ततः स कुनखीभूतो दर्शनीयनखो नृपः ॥”) दर्शनयोग्यः । इति व्याकरणम् ॥ (यथा, पञ्च- तन्त्रे । ४ । ४० । “शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्त्रक ! । यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=दर्शनीयः&oldid=139759" इत्यस्माद् प्रतिप्राप्तम्