दर्शितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दर्शितः, त्रि, (दृश् + णिच् + क्तः ।) दर्शनं कारितः । तत्पर्य्यायः । प्रकाशितः २ आविष्कृतः ३ प्रक- टितः ४ । इति हेमचन्द्रः ॥ (यथा, आर्य्या- सप्तशत्याम् । २८९ । “दर्शितयमुनोच्छ्राये भ्रूविभ्रमभ्राजि वलति तव नयने । क्षिप्तहले हलधर इव सर्व्वं पुरमर्ज्जितं सुतनु ॥”)
