सामग्री पर जाएँ

दलितम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दलितम्, त्रि, (दलमस्य जातम् । दल + तारका- दित्वात् इतच् । प्रफुल्लम् । इति हेमचन्द्रः । ४ । १९४ ॥ (दल + क्त ।) खण्डितम् । यथा, -- दलिताञ्जनमेघपुञ्जेत्यादि क्रमदीपिका ॥ (यथा च प्रबोधचन्द्रोदये । २ । ३५ । “दलितकुचनखाङ्गमङ्गपालीं रचय ममाङ्कमुपेत्य पीवरोरु ! ॥” विक्षिप्तम् । यथा, आर्य्यासप्तशत्याम् । ३०२ । “दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते ॥”)

"https://sa.wiktionary.org/w/index.php?title=दलितम्&oldid=139794" इत्यस्माद् प्रतिप्राप्तम्