दशग्रीवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशग्रीवः, पुं, (दश ग्रीवा यस्य ।) रावणः । इति शब्दमाला ॥ (यथा, महाभारते । ३ । २७४ । १० । “दशग्रीवस्तु सर्व्वेषां श्रेष्ठो राक्षसपुङ्गवः । महोत्साहो महावीर्य्यो महासत्त्वपरा- क्रमः ॥”) एकादशमन्वन्तरीयवृषनामकेन्द्रशत्रुविशेषः । यथा, -- “रुद्रपुत्त्रस्य ते पुत्त्रान् वक्ष्याम्येकादशस्य तु । सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरुर्गुरुः ॥ क्षत्त्रबद्धा दृढायुश्च आर्द्रकः पुत्त्रकस्तथा । हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरः ॥ विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्त्तिताः । विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा ॥ एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृषः । दशग्रीवो रिपुस्तस्य स्त्रीरूपी घातयिष्यति ॥” इति गरुडे ८७ अध्यायः ॥ (असुरविशेषः । यथा महाभारते । २ । ९ । १४ । “दशग्रीवश्च बाली च मेघवासा दशारवः ॥” दमघोषस्य पुत्त्रविशेषः । यथा, हरिवंशे । ११६ । २२ । “दमघोषस्य पुत्त्रास्तु पञ्च भीमपराक्रमाः । भगिन्यां वासुदेवस्य श्रुतश्रवसि जज्ञिरे । शिशुपालो दशग्रीवोरैभ्योऽथोपदिशो बली ॥”)
