दशतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशतिः, स्त्री, (दशावृत्या दश । निपातनात् साधुः ।) शतम् । इति महाभारते दानधर्म्मः ॥ (यथा, महाभारते । १ । १६ । १३ । “कालेन महता कद्रुरण्डानां दशतीर्दश । जनयामास विप्रेन्द्र ! द्वे चाण्डे विनता तथा ॥” “यथा नव दशावृत्या नवतिस्तथा दश दशा- वृत्या दशतिः शतमित्यर्थः । दश दशतीर्दश- शतानीत्यर्थः ॥” इति तत्र नीलकण्ठः ॥)
