सामग्री पर जाएँ

दशभुजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशभुजा, स्त्री, (दश भुजा बाहवो यस्याः ।) दुर्गा । यथा, कालिकापुराणे ५९ अध्याये । “इतिवृत्तं पुराकल्पे मनोः स्वायम्भुवेऽन्तरे । प्रादुर्भूता दशभुजा देवी देवहिताय वै ॥ नृणां त्रेतायुगस्यादौ जगतां हितकाम्यया । पुराकल्पे यथा वृत्तं प्रतिकल्पं तथा तथा ॥ प्रवर्त्तते स्वयं देवी दैत्यानां नाशनाय वै । प्रतिकल्पं भवेद्रामो रावणश्चापि राक्षसः ॥ तथैव जायते युद्धं तथा त्रिदशसङ्गमः । एवं रामसहस्राणि रावणानां सहस्रशः ॥ भवितव्यानि भूतानि तथा देवी प्रवर्त्तते । पूजयन्ति सुराः सर्व्वे बलं वीराजयन्त्यपि ॥ तथैव च नराः सर्व्वे कुर्य्युः पूजां यथाविधि ॥” (दशबाहुविशिष्टे, त्रि । यथा, कात्यायनी- तन्त्रे महाकाल्या ध्यानम् । “दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा । विशालया राजमाना त्रिंशल्लोचनमालया ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशभुजा¦ स्त्री दश भुजा अस्याः। दुर्गायां
“इतिवृत्तं पुराकल्पे मनोः स्वायम्भुवेऽन्तरे। आविर्भूता दशभुजा देवीदेवहिताय वै” कालिकापु॰

५९ अ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशभुजा/ दश--भुजा f. " ten-armed " , दुर्गाKa1lP.

"https://sa.wiktionary.org/w/index.php?title=दशभुजा&oldid=286935" इत्यस्माद् प्रतिप्राप्तम्