दशमभाव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशमभाव¦ पु॰ कर्म॰ जन्मवर्षादिलग्नांशविशेषानीतेषु तन्वादि-द्वादशभावेषु दशमे भावे। तदानयनप्रकारो यथा।
“पूर्वं नतं स्याद्दिनरात्रिखण्डं दिवानिशोरिष्टघटीविही-नम्। दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्व-[Page3480-b+ 38] परं नतं स्यात्। तत्काले सायनार्कस्य भुक्तभोग्यांशसं-गुणात्। स्वोदयात् खाग्निलब्धं यत् भुक्तं भोग्यं रवे-स्त्यजेत्। इष्टनाडीपलेभ्यश्च गतगम्यान्निजोदयात्। शेषंखत्र्याहतं भुक्तमशुद्धेन लवादिकम्। अशुद्धं शुद्धभेहीनयुक् तनुर्व्ययनांशकम्। एवं लङ्कोदयैर्भुक्तभोग्यंशोध्यं पलीकृतात्। पूर्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमंभवेत्”। जातकोपयोपयोगितद्भावे शुभाशुभं सर्वार्थचि॰उक्तं यथा(
“दशमात् प्रवृत्तिमाज्ञां कीर्त्तिं वृष्टिं प्रवासपूर्त्तादीन्। मानं कर्माजीवं जानुस्थानं च निर्दिशेद्धीमान्। कर्मा-धिपे हीनबले सपापे कर्मादिवैकल्यमुशन्ति तज्ज्ञाः। कर्मेशवागीशशशाङ्कपुत्रावीर्यान्विता यज्ञकरा भवन्ति। शुभग्रहैर्दृष्टिसमन्वितास्ते वीर्य्यान्विता यज्ञविशेषमाहुः। दुःस्थाः शशाङ्कात्मजजीवशुक्राः पापेक्षिताः कर्मविनाश-माहुः। नाशस्थितास्तत्र तदंशनाथास्तद्युक्तराशेरधिपाश्चनाशम्। राहौ च माने यदि वा दिनेशे भागीरथीस्नानमुशन्ति तज्जाः। माने च मीने यदि वा ससौम्येभौमान्विते वा भविता च मुक्तिः। जलर्क्षगे पूर्णशशाङ्कजीवेग्रानस्थिते गाङ्गजलादिपूतः। माने गुरौ शुक्रयुते चकेन्द्रे खोच्चस्थिते तादृशतोयपूतः। माने धने शुक्रयुतेसजीवे केन्द्रोच्चगे तादृशतोयपूतः। बुधे व्यये वा यदि वातदीशे स्वोच्चान्विते तादृशपुष्पभाक् स्यात्। चन्द्रे तृतीयेजलराशियुक्ते सौम्यान्विते तादृशपुष्पभाक् स्यात्। शुभे-श्वरे केन्द्रयुते जलर्क्षे सौम्येक्षिते तादृशतोयपूतः। बुधेसजीवे यदि वा सभौमे प्राकारकृन्मण्डपगोपुरादीन्। मानस्थिते तद्गृहनाथयुक्ते करोति जीर्णोद्धरणादितत्र। करोति कूपादितटागभूमिं कर्मेश्वरे गोपुरभागयुक्ते। मृद्वंशके वा शुभदृष्टियुक्तभाग्येश्वरेणापि निरीक्षिते वा। चन्द्रात्मजे कर्मगते तदीशे भाग्यस्थिते पापविवर्जिते-ऽस्मिन्। सौम्येक्षिते शोभनभावयुक्ते यज्ञस्य कर्त्ता सभवेत् तदानीम्। कर्माधिपेऽस्मिन् यदि सोमपुत्रे स्वोच्च-स्थिते वा यदि धर्मराशौ। विवर्जितः स्याच्छिखिराहु-पापैर्यज्ञस्य कर्त्ता स भवेत्तदानीम्। कर्माधिपे स्वोच्चगतेसपापे नीचांशगे नाशगतेऽपि तस्मिन्। विघ्नो भवत्येवमखस्य तस्य क्रूरादिषष्ठांशगतेऽपि चैवम्। तुङ्गस्थितेसोमसुते तदीशे स्वोच्चान्विते सोमसुतेन दृष्टे। शुभे-क्षिते वा सबुधे स्वराशौ यज्ञस्य कर्त्ता स भवेत्तदानीम्। आज्ञास्थानाधिपे सौम्ये शुभदृष्टियुतेऽपि वा। शोभनांश-[Page3481-a+ 38] गते वापि जातस्त्वाज्ञाधिपो भवेत्। आज्ञास्थानगते सूर्येभूमिपुत्रेऽथ वा युते। केन्द्रान्विते तदीशेऽपि क्रूरामाज्ञांकरोति सः। आज्ञाधिपे मन्दयुते रन्ध्रनाथेन संयुते। क्रूरांशे केन्द्रराशौ वा क्रूरामाज्ञां करोति सः। माना-धिपे केन्द्रयुते शुभयुक्तेक्षितेऽपि वा। क्रूरषष्ठांश-संयुक्ते सौम्यामाज्ञां करोति सः। राहुमन्दयुते मानेरन्ध्रे राहौ ध्वजेऽपि वा। नीचस्थे धर्मभावेशे क्रूरा-माज्ञां करोति सः। शशाङ्के कर्किसंयुक्ते गुरुशुक्रनिरी-क्षिते। पारावतादिभागस्थे सत्कीर्त्तिसहितो भवेत्। तदीशे शुभसंयुक्ते शुभमध्यगतेऽपि वा। शुभग्रहाणा-संशे वा सत्कीर्त्तिरहितो भवेत्। कान्तिस्थानाधिपेसौम्ये स्वोच्चमित्रस्ववर्गगे। सौम्यषष्ठांशके वापि सत्-कीर्त्तिसहितो भवेत्। तदीशे देवलोकस्थे सिंहांशे शुभ-नायके। बलपूर्णे विलग्नेशे सत्कीर्त्तिसहितो भवेत्। पापग्रहाणां सम्बन्धे माननाथे बलक्षये। क्रूरषष्ठां-शसंयुक्ते सत्कीर्त्तिसहितो भवेत्। अपकीर्त्तियुतो जातःकर्मस्थे च रवौ शनौ। पापांशके पापदृष्टे पापमध्य-गतेऽपि तत्। शुभग्रहाणां सम्बन्धे मानतन्नायकेऽपिवा। स्वोच्चे वा स्वगृहे वापि जातो मानी दृढव्रतः। इङ्गितज्ञोऽपि मानी स्यान्माने जीवेऽथ वा शुभे। तदीशेशुभसम्बद्धे शुभमध्यगतेऽपि वा। पापे माने पापदृष्टेतदीशे नीचराशिगे। पापराश्यंशके वापि मानहीनोभवेन्नरः। मानाधिपे चरांशस्थे सञ्चारसहितो भवेत्। स्थिरांशस्थैर्य्यमुद्दिष्टं मृगयात्र द्विदेहगे। षष्ठेशे कर्म-राशिस्थे कर्मेशे मन्दसंयुते। केन्द्रत्रिकोणगे वापि दासीदासान् विनिर्दिशेत्। कर्माधिपस्थांशपतौ शनिसम्बन्ध-संयुते। षष्ठाधिपस्य सम्बन्धे बहुदासान् विनिर्दिशेत्। शुभग्रहेण संदृष्टे कर्मराशौ तदीश्वरे। भानुपुत्रेण वायुक्ते बहुदामान् विनिर्दिशेत्। कर्मनाथेन वा भुक्ति-प्रश्ने पूर्तिं विनिर्दिशेत्। तत्र पापसमायोगे जानुदौर्व-ल्यमादिशेत्”। ( वर्षलग्नात् दशमभावफलादिकं नील॰ ता॰ उक्तं यथा(
“सबलेऽव्दपतौ खस्थे राज्यार्थसुखकीर्त्तयः। स्था-नान्तराप्तिरन्यस्मिन् केन्द्रे गृहसुखाप्तयः। इत्थंवली रविः खस्थः पूर्वार्जितपदाप्तिकृत्। एकादशेऽस्मिन्सख्यं स्यान्नृपामात्यगुणोत्तमैः। रविस्थानेन्थिहा लग्नेस्वे वा राज्याप्तिसौख्यदा। नीचेऽर्के पापसंयुक्ते भूपा-द्बन्धवध दिशेत्। सिंहे रविर्बली खस्थः स्थानलाभनृपा-[Page3481-b+ 38] श्रय॰। स्थानान्तराधिकाराप्तिः इन्दुः सारपदे बली। खेशलग्नेशवर्षेशेत्थशालो राज्यदायकः। वर्षेशे राज्य-सहमेऽर्केत्थणाले महान्नृपः। शनिस्थाने कुजः पश्यन्मुथहां पापकृन्मतः। नृपभीतिं वित्तनाशं दद्याद्दशमगोयदि। ईदृशे त्रिनवस्थेऽस्मिन् दग्धे नष्टेऽघसञ्चयः। मन्दोऽव्दपोऽधिकारी त्रिधर्मगे धर्मवृद्धिदः। तस्मिन्दग्धेऽपि नष्टे च पापकृद्धर्मनिन्दकः। ईदृशीदृक्फलंसूर्य्ये गुरावित्थं नयार्थभाक्। तत्रस्था सुस्थहा पुण्या-गमपापं खलाश्रयात्। सूतौ खेशे रवौ खस्थे वर्षे-मुथशिलं यदि। लग्नाधिपेन राज्याप्तिरुक्ता वीर्य्यानुमा-नतः। घर्मकर्माधिपौ दग्धौ धर्मराज्यक्षयावहौ”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशमभाव/ दशम--भाव m. the culminating point , or that point in which the meridian crosses a given circle Su1ryas. Sch.
