सामग्री पर जाएँ

दशमास्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशमास्य¦ पु॰ दश मासान् गर्भे स्थितः यत्। दशमासान्व्याप्य गर्भे स्थिते बाले। तथाभूतस्य गर्भात् सुखनिर्गमायपाठ्यमृक्त्रयं ऋ॰ दर्शितं यथा। (
“यथा वातः पुष्करिर्णी समिङ्गयति सर्वतः। एवाते गर्भ एजतु निरैतु दशमास्यः” ऋ॰

५ ।

७८ ।

७ ।
“यथावातो यथा वनं यथा समुद्र एजति। एवा त्वं दशमास्यःसहावेहि जरायुणा”

८ ।
“दश मासाञ्छयानःकुमारो अधिमातरि। निरैतु जीवो अक्षतो जीवोजीवन्त्या अधि”

९ ।
“एतदाद्यृक्त्रयं गर्भस्राविण्युपनि-षत्।
“एतदाद्यृक्त्रयेणासौ सप्तवध्रिः स्वयोषितः। गर्भिण्याःप्रसवायाशु स्तुतवानश्विनावृषिः”।
“यथा वातः पुष्करिणोंसर आदिकं सर्वतः समिङ्गगयति सम्यक् चालयतिएवैवं तव गर्भ एजतु कम्पताम्। इतस्ततः सञ्चरतु। दशमास्यो दश मासान् गर्भे स्थितो निरैतु”। निर्गच्छतु
“वातो यथा कम्पमानो वनं कम्पयति स्वयम्। यथासमुद्रश्चलति चाल्यते वाथ वायुना। स्थित्वा दशैव मासांस्त्वंगर्भोल्वेन सुवेष्टितः। निर्गच्छ जठरान्मातुर्जरायुज-स्ततः पतेत्। दशमासानुषित्वासौ जननीजठरे सुखम्। निर्गच्छतु सुखं जीवो जननी चापि जीवतु” भा॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशमास्य/ दश--मास्य mfn. ( दश्)10 months old (the child just before birth ; See. अ-) RV. v , 78 , 7 f. AV. i , iii. A1s3vGr2. BhP.

दशमास्य/ दश--मास्य mfn. let loose for 10 months (a horse) S3Br. xiii , 5 , 4 , 22.

"https://sa.wiktionary.org/w/index.php?title=दशमास्य&oldid=287019" इत्यस्माद् प्रतिप्राप्तम्