दशमूत्रक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशमूत्रकम्, क्ली, (दशानां मूत्रकानां समाहारः ।) हस्तिमहिषोष्ट्रगवाजमेषाश्वगर्द्दभमानुषमानु- षीणां दशानां मूत्रम् । इति राजनिर्घण्टः ॥ (एतद्गुणा यथा, सुशुते । १ । ४५ । “गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णानि कटून्युष्णानि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिमेदोविषगुल्मार्शौदर- कुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः । भवन्ति चात्र । “तत् सर्वं कटुतीक्ष्णोष्णं लवणानुरसं लघु । शोधनं कफवातघ्नं कृमिमेदोविषापहम् ॥ अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् । पाण्डरोगहरं भेदि हृद्यं दोपनपाचनम् ॥ गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् । लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥ शूलगुल्मोदरानाहविरेकास्थापनादिषु । मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु । आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ कासश्बासापहं शोषकामलापाण्डु रोगनुत् । कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥ कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् । सक्षारन्तिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ दीपनं कटुतीक्ष्णोष्णं वातचेतोविकारनुत् । आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ॥ सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् । तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् । गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् । दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ॥ शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् । अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशमूत्रक¦ न॰ दशानां मूत्राणां समाहारा। दशानांप्राणिनां गोमहिषाजाविहयगजखरोष्ट्रमानुषमानु-षीणां मूत्रे। प्राणिभेदे तद्गुणाः सुश्रुते उक्ता यथा(
“गोमूत्रं कटुतीक्ष्णोष्णं सक्षारत्वान्न वातलम्। लघ्व-ग्निदीपनं मेध्यं पित्तलं कफवातजित्। शूलगुल्मोदरा-नाहविरेकास्थापनादिषु। मूत्रप्रयोगसाध्ये च
१ गव्यं मूत्रंप्रयोजयेत्। दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु। आ-नाहशोफयुल्मेषु पाण्डुरोगे च माहिषंम्
२ । कासश्वासा-पहं शोषकामलापाण्डुरोगनुत्। कटुतिक्तान्वितं छाग
३ मी-षन्मारुतकोपनम्। कासप्लीहोदरश्वासशोषवर्चोग्रहे हि-तम्। सक्षारन्तिक्तकटुकमुष्णं वातघ्नमाविकम्
४ । दीपनंकटुतीक्ष्णोष्णं वातचेतोविकारनुत्। आश्वं
५ कफहरंमूत्रं कृमिददुषु शस्यते। सतिक्तं लवणं भेदि वातघ्नंपित्तकोपनम्। तीक्ष्णं क्षारे किलासे च नागं
६ मूत्रंप्रयोजयेत्। गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत्। दीपनं गार्दभं
७ मूत्रं कृमिवातकफापहम्। शोफकुष्ठो-दरोन्मादमारुतक्रिमिनाशनम्। अर्शोघ्नं कारभं
८ मूत्रंभानुषन्तु
९
१० विषापहम्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशमूत्रक/ दश--मूत्रक n. the urine of 10 (elephant , buffalo , camel , cow , goat , sleep , horse , donkey , man , and woman) L.
दशमूत्रक/ दश--मूत्रक n. See. Sus3r. i , 45 , 11 , 1 and 12.
