सामग्री पर जाएँ

दशमूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशमूलम्, क्ली, (दशानां मूलानां समाहारः । पात्रादित्वात् न ङीप् ।) पाचनविशेषः । यथा, -- “विल्वश्योणाकगम्भारीपाटलागणिकारिकाः । दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥ शालपर्णी पृश्निपर्णी बृहतीद्बयगोक्षुरम् । वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥ उभयं दशमूलन्तु सन्निपातज्वरापहम् । कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥ पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम् ॥” इति सुखबोधः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशमूल¦ न॰ दशसंख्यकानां मूलानां समाहारः पात्रा॰ न वाङीत्। चक्रदत्तोक्ते पाचनभेदे
“विल्वश्यीनाकगाम्भारीपाटलागणिकारिकाः। दीपनं कफवातघ्नं पञ्चमूलमिदंमहत्। शालपर्णीपृश्निपर्णीवृहतीद्वयगोक्षुरम्। वात-पितहरं वृष्यं कनीयः पञ्चमूलकम्। उभयं दशमूलन्तुसन्निपातज्वरापहम्। कासे श्वासे च तन्द्रायां पार्श्व-शूले च शस्यते। पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाश-नम्”। अत्र वा ङीप्। दशमूलीरसे सर्पिः” चक्रद॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशमूल¦ n. (-लं) A tonic medicament prepared from the roots of ten plants. E. दश ten, and मूल a root.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशमूल/ दश--मूल n. a tonic medicine prepared from 10 roots( त्रिकण्टक, both kinds of बृहतीपृथक्-पर्णी, विदारि-गनधा, बिल्व, अग्नि-मन्थ, तुण्टुक, पाटलand काश्मरी) , 38 ; iv , 37

"https://sa.wiktionary.org/w/index.php?title=दशमूल&oldid=287073" इत्यस्माद् प्रतिप्राप्तम्