सामग्री पर जाएँ

दशयोगभङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशयोगभङ्गः, पुं, (दशयोगस्य भङ्गः ।) संस्कार- कर्म्मणि नक्षत्रबेधविशेषः । अयं खर्ज्जुरवेधः । यथा, -- “तिथ्यङ्गवेदैकदशोनविंश- भैकादशाष्टादशविंशसंख्याः । इष्टोडना सूर्य्ययुतोडना च योगादमूश्चेद्दशयोगभङ्गः ॥ अस्यार्थः । कर्म्मकालीनविवाहाद्युक्तनक्षत्राङ्क- रविभुक्तनक्षत्राङ्कयोर्योगे यदि एते अङ्काः स्युः तदा दशयोगभङ्गः स्यात् ॥ अस्य प्रतिप्रसवो यथा, -- आद्यपादे स्थिते सूर्य्ये तुरीयांशं विवर्ज्जयेत् । द्वितीयस्थे तृतीयञ्च विपरीतमतोऽन्यथा ॥” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=दशयोगभङ्ग&oldid=139856" इत्यस्माद् प्रतिप्राप्तम्