दशरथः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशरथः, पुं, (दशसु दिक्षु गतो रथो यस्य ।) इक्षाकुवंशीयराजविशेषः । स अयोध्याधिपतिः । अस्योत्पत्तिर्यथा, -- सौराष्ट्रदेशोद्भवभिक्षुनामद्बिजपत्नी कलहा भर्त्त्रा सह सर्व्वदा कलहात् मृता प्रेतत्वं गता सा कदाचित भ्रमन्ती धर्म्मदत्तसंज्ञकं द्बिजं दृष्ट्वा तत्समीपमागत्य तद्धस्तस्थतुलसीवारिसंसर्गात् पापभावं परित्यज्य तमुवाच हे द्विज ! मयि कृपां कुरु अहं कथं मुक्तिं प्रयास्यामि । धर्म्मदत्त- स्तामुवाच तीर्थदानव्रतादिभिः पापानि नश्यन्ति । तेषु ते नाधिकारः तस्मादाजन्मपर्य्यन्तं यन्मया कार्त्तिकव्रतं कृतं तस्यार्द्धं ददामि इत्युक्त्वा तुलसी मिश्रितजलेन तामसेचयत् द्वादशाक्षरमन्त्र- मश्रावयच्च । ततः सा दिव्यरूपा अभवत् । तदा सा दिव्यं विमानमपश्यत् विष्णुगणपुण्यशीलसुशी- लाभ्यां सा तद्विमाने आरोहिता । धर्म्मदत्तस्त- द्विमानं तौ गणौ च दृष्ट्वा अतिविस्मयेन भूमौ पपात पुण्यशीलसुशीलौ तमुत्थाप्य प्रशस्य ऊचतुः त्वमेतज्जन्मान्ते भार्य्याभ्यां सह वैकुण्ठं यास्यसि । तत्र बहुसहस्रवत्सराणि स्थित्वा पुण्यक्षये सूर्य्यवंशोद्भवदशरथनामा राजा भवि- ष्यसि अनया कलहया सह भार्य्यात्रययुतं त्वां विष्णुः पितृत्वेन स्वीकरिष्यति । इति पाद्मे उत्तरखण्डम् ॥
