दशाङ्गधूप
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशाङ्गधूप¦ पु॰ त्रिदीषघ्ने अवग्रहपिशाचादिनाशके धूप-विशेषे यथा
“वासयेद्वा दशाङ्गेन त्रिदोषघ्नेन चार्भकम्। नश्यन्ति यस्य धूपेन अवग्रहपिशाचकाः। पञ्चांशागन्धपाषाणात् तावन्महिषगुग्गुलुः। चतुरंशं चन्दनञ्चजटामांसी च तावती। त्रिभागः सर्जकः सारस्ताव-देव हि रालकम्। उशीरन्तु द्विभागं स्यात् घृते भृष्टंनखं समम्। कर्पूरी मृगनाभिश्च एकभागौ प्रकीर्त्तितौ। [Page3506-a+ 38] एष दशाङ्गधूपस्तु रूद्रस्यापि मनोहरेदिति” शब्दार्थचि॰धृतवाक्यम्। पुष्पदानोत्तरं देवाय दीयमाने
३ धूपविशेषे यथा
“मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरुशैलजम्। सरलं सिह्ल-सिद्धार्थं दशाङ्गधूप उच्यते इति”। अन्यश्च। कर्पूरंकुष्ठमगुरु गुग्गुलुर्मलयोङ्भवम्। केशरं वालकं पत्रंत्वक् जातीकोषमुत्तमम्। सर्वमेतद्घृतयुतं दशाङ्गधूपईरित” इति।
