सामग्री पर जाएँ

दशाङ्गुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशाङ्गुलम्, क्ली, (दश अङ्गुलय इव शिराचिह्नानि फलत्वगुपरि सन्त्यस्येति । अच् ।) स्वर्व्वूरम् । इति भावप्रकाशः ॥ (दश अङ्गुलयः परि- माणमस्येति तद्धितार्थद्विगोः ठञ् तस्य लुक् समासान्तः अच्प्रत्ययः । दशाङ्गुलपरिमिते, त्रि । यथा, मनुः । ८ । २७१ । “नामजातिग्रहं त्वेषामभिद्रोहेण कुर्व्वतः । निःक्षेपोऽयमयःशङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥” यथा च ऋग्वेदे । १० । ९० । १ । “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥” “विश्वतः सर्व्वतो वृत्वा परिवेष्ट्य दशाङ्गुलं दशा- ङ्गुलपरिमितं देशमत्यतिष्ठत् ।” इति तद्भाष्ये सायनः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशाङ्गुल¦ न॰ दश अङ्गुलय इव फलत्वगुपरि सन्त्यस्य अच्।

१ खर्बुजे फलभेदे भावप्र॰ तस्य फलोपरि अङ्गुलाकारदश-सिरासत्त्वात् तथात्वम्। तद्गुणाः खर्वुजशब्दे

२४

६९ पृ॰ उक्ताः। दश अङ्गुलयः प्रमाणमस्य तद्धितार्थद्विगोःठञ् तस्य लुक् अच्समा॰।

२ दशाङ्गुलिप्रमाणयुक्तेत्रि॰।
“निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः” मनुः। सहस्रशोर्षेत्यादि
“अत्यतिष्ठद्दशाङ्गुलम्” ऋ॰

१० ।

९० ।


“दशाङ्गुलं दशाङ्गुलिपरिमितं देशमत्यतिष्ठत्अतिक्रम्य व्यवस्थितः” भा॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशाङ्गुल/ दशा n. a length of 10 fingers RV. x , 90 , i

दशाङ्गुल/ दशा mfn. 10 fingers long Mn. viii , 271

दशाङ्गुल/ दशा n. a water-melon Npr.

"https://sa.wiktionary.org/w/index.php?title=दशाङ्गुल&oldid=287496" इत्यस्माद् प्रतिप्राप्तम्