सामग्री पर जाएँ

दशाङ्गुलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दशाङ्गुलम्, क्ली, (दश अङ्गुलय इव शिराचिह्नानि फलत्वगुपरि सन्त्यस्येति । अच् ।) स्वर्व्वूरम् । इति भावप्रकाशः ॥ (दश अङ्गुलयः परि- माणमस्येति तद्धितार्थद्विगोः ठञ् तस्य लुक् समासान्तः अच्प्रत्ययः । दशाङ्गुलपरिमिते, त्रि । यथा, मनुः । ८ । २७१ । “नामजातिग्रहं त्वेषामभिद्रोहेण कुर्व्वतः । निःक्षेपोऽयमयःशङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥” यथा च ऋग्वेदे । १० । ९० । १ । “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥” “विश्वतः सर्व्वतो वृत्वा परिवेष्ट्य दशाङ्गुलं दशा- ङ्गुलपरिमितं देशमत्यतिष्ठत् ।” इति तद्भाष्ये सायनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दशाङ्गुलम्&oldid=139870" इत्यस्माद् प्रतिप्राप्तम्