दशार्णः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दशार्णः, पुं, (दश ऋणानि दुर्गभूमयो जलाधारा वा यत्र । “एत्येधत्यूट्सु ।” ८ । ४ । ६५ । इत्यस्य “प्रवत्सतरकम्बलवसनार्णदशानामृणे ।” इति वार्त्तिकोक्त्या वृद्धिः ।) देशविशेषः । स बिन्ध्य- पर्व्वतस्य पूर्ब्बदक्षिणस्यां दिशि वर्त्तते । (यथा, बृहत्संहितायाम् । १४ । १० । “किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिक- दशार्णाः ॥” तदस्याभिजनः तस्य राजा वा अण् । तद्देश- वासिनि तन्नृपतौ च त्रि । यथा, महाभारते । १ । ११३ । २५ । “पूर्ब्बमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नारसिंहेन कौरवाणां यशोमृता ॥” दश अर्णानि वर्णानि यत्र । दशाक्षरमत्न- विशेषः । यथा, गोतमीयतन्त्रे । २ अध्याये । “दशानामपि तत्त्वानां साक्षी वेत्ता तथाक्षरम् । दशाक्षर इति ख्यातो मन्त्रराजः परात्परः ॥ लुप्तबीजस्वभावत्वात् दशार्ण इति कथ्यते ॥”) नदीविशेषे, स्त्री । इति शब्दार्थकल्पतरुः ॥
